________________
(२५२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
सोपानहस्तिनखयोः शिखरं पुलकाग्रयोः। पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ॥६०४॥ . वृक्षाग्रे पर्वताग्रे च शिशिरः शीतले हिमे । ऋतुभेदे शिलीन्ध्रस्तु तरुमीनप्रभेदयोः ॥६०५॥
पातकम् । अपराध आगः । शावरी तु शूकशिम्बी । शूकशिम्बी कपिकच्छूः । अथ शाक्वरं छन्दोभित् । शकर्येव शाक्वरम् , छन्दोभित् , चतुर्दशाक्षरा जातिः। शाक्वरस्तुक्षा । शक्वर्या धेनोरयं शाक्वरः । उक्षा वृषभः तत्र यथा-दूरं शंकर शाक्वरः समभवत्प्रालेयशैलावनौ । यत्तंत्रक्षितिपालपंकजदृशां त्रासाय हासाय च ॥ शालारं पक्षिपंजरे । सोपानहस्तिनखयोः । शालामियर्ति शालारम् कर्मणोऽण् (५-१-७२) हस्तिनखो दुर्गद्वारावतरणार्थ क्रमनिम्नो मृत्कूटोपसोपानाख्यः ॥६०३॥ शिखरं पुलकाग्रयोः। पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षाग्रे पर्वताग्रे च । शाखति शिखरम् । शाखेरिदेतौचात इत्यरः । पंचस्वर्थेषु पुंक्लीबः । पुलको रोमांचः । अग्रं अग्रमात्रम् । तयोर्यथा-रुचिरैः शिखरैः काम्या गृहालीव मृगेक्षणा । पक्कदाडिमबीजाभमाणिक्यशकले यथा-तन्वी श्यामा शिखरदशना ॥६०४॥ वृक्षाग्रे यथा-एष वृक्षशिखरे कृतास्पदः । पर्वताग्रे यथा-यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्विभर्ति । शिशिरः शीतले हिमे । ऋतुभेदे । शशति शिशिरः । शव शशे रिच्चात (उ. ४१३) इतीरः । शीतले गुणे पुसि । तद्वति वाच्यलिङ्गः । अन्यत्र पुंक्लीबः । शीतले यथा-शिशिरशीकरवाहिनि मारुते चरति शीतभयादिव सत्वरम् । हिमे यथा-शिशिरकरमयूखैदह्यतेऽङ्गं सुमुख्याः । ऋतुभेदे यथा- शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः । शिलीन्ध्रस्तु तरुमीनप्रभेदयोः । इन्द्रे शिलीन्ध्रः । खुरक्षुरेति निपातनात् (उ. ३९६) साधुः । तरुप्रभेदे यथा-नवकदम्बरजो