________________
तृतीयः काण्डः .
(२५१)
उपलायां शर्करायुग देशे च शकलेऽपि च । शर्वरी निशि नार्यां च शक्वरी सरिदन्तरे ॥६०१॥ छन्दोजातो मेखलायां शारीरं देहजे वृषे। शार्वर घातुके ध्वान्ते शावरो रोघ्रपापयोः ॥६०२॥ अपराधे शावरी तु शूकशिम्ब्यथ शाश्वरम् ।
छन्दोभित् शाक्चरस्तूला शालारं पक्षिपंजरे ॥६०३॥ राखुको । शर्करा खण्डविकृतौ कर्परांशेरुनान्तरे। उपलायां शर्करायुग देशे च शकलेऽपि च । शणोति शीयते वा शर्करा । कि श वृ भ्यः करः (उ. ४३५) शर्करायुग् देशे त्वभेदोपचारात् । षडर्थेषु स्त्रियाम् । स्वण्डविकृतौ यथाकालिदासकविता नवं वयो माहिषंदघि सशर्करं पयः । कर्परांशो मृत्कपालखण्डम् ॥६००॥ उपला अश्मरूपामृत् । तयोर्यथा- नगतरुशिखरामर्दीत शर्करोमारुत३चण्डः । रुगन्तरे यथा-शर्करानाशकोषधम् । शर्करायुक्तोदिशः । शर्कयुग्देशः । तत्र यथा-शर्करायां ययो कर्कः । शकलं खण्डम् । शर्वरी निशि नार्या च ॥ शणोति शर्वरी । क ग श (सि. उ. ४४१) इति वरट् । निशायां यथागतिपरिचयनश्यन्नैद्रतन्द्रः कथंचिद्गमयति शयनीये शर्वरीं किं करोतु । शक्वरी सरिदन्तरे ॥ छन्दोजातौ मेखलायाम् । शक्नोति शक्वरी । स्नामदोति (उ, ९०४) वन् । णश्वराधोषेति डो (२-४-४) रश्चान्तादेशः ॥६०१॥ छन्दोजातिश्चतुर्दशाक्षरा । तत्र मेखलायां च यथा- शक्वर्या ग्रथिता विभाति सुतनोः सारोमराजिस्तनौ । धत्ते या स्मर पार्थिवस्य रुचिरं भोगावलो विभ्रमम् ॥ गव्यपि शारीरं देहजेवृषे । शरीरे भवं शारीरम् । देहजे वाच्यलिङ्गः । तत्र यथा-शारारनिसर्दुखः संसारे को न दुःखितः । वृषो मैथुनम् ॥ शार्वरं धातुके ध्वान्ते । शणोति शर्वरम् । कृ गृ इति वरटि । स्वार्थेऽणि (उ. ४४१) शार्परम् शर्वयां भवं वा । धातुको हिंस्रस्तत्र वाच्यलिङ्गः । धातुकहस्तिनी त्यमरः । द्धयोर्यथा- शर्वरी शार्वरैर्भीष्म । शावरोरोघ्रपापयोः । अपराधे श्यति शावरः । तोवरपीपरेति बरट् । (उ, ४४४) रोधो वृक्षविशेषः । पापं