________________
(२५०) अनेकार्थसंग्रहः सटीक : द्वितीया विभाग;
विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः । रसालायां विसरस्तु समूहे प्रसरेाप च ॥५९८॥ शर्वरो म्लेच्छभेदेऽप्सु हरेऽथ शम्बरं जले । चित्र बौद्धव्रतभेदे शम्बरो दानवान्तरे ॥५९९॥ मत्स्यैण गिरिभेदेषु शम्बरी पुनरौषधौ ।
शर्करा खण्डविकृतौ कर्परांशेरुगन्तरे ॥६००॥ विदारो युधि दारुणे । विदीर्यतेऽत्र विदारणम्बा विदारः । विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः। विदारयति विदारी । (अचि रे) गौरादित्वाड्डीः । शालपर्णाक्षुगन्धे ओषधी । विधुरं स्यात्प्रविश्लेषे विकले। विधत् विधाने । विधेः किदित्युरे विधुरः । विकले वाच्यलिङ्गः । प्रविश्लेष इष्टवस्तुवियोगः । तत्र यथा-मित्राणि तानि विधुरेषु भवन्ति यानि । विकले यथा- कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् । कष्टेऽपि यथा- सति मधावभवन्मदनव्यथाविधुरिताधुरिताः कुकुरस्त्रियः। विधुरा पुनः । रसालायाम् । रसाला शिखरिणी । विसरस्तु समूहे प्रसरेऽपि च । विसरणं विसरः । बाहुलकादम् । द्वयोर्यथाकरविसरनिरस्तध्वान्तराशिः खरांशु ॥५९८॥ शवरो म्लेच्छभेदेऽप्सु हरे । शवति शवरः । ऋछिचटी अरः । म्लेच्छभेदे यथा-अमी क्रूरा दूरात्क्वणितमिदमाकर्ण्यसुतरां त्वरन्ते हन्तुं त्वामहह शवराः पुखितशराः। आपः सलिलम् हरः शम्भुः । कृतक्रीडा किरातवेषत्वात् । शम्बरं जले। चित्रे बौद्धब्रतभेदे । शाम्यति शम्बरम् । क ग श इति बहुवचनाद्वरद् (उ. ४४१) शम्वृणोति वा । लिहायच् (५-१-५०) जले यथा-शम्बरमम्बरसदृशं विशदतरं तभृशं जलधि । चित्रं नानावर्णम् । तत्र- वाच्यलिङ्गः । शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु । दानवान्तरे यथा- शम्बरारिरपरो विराजते ॥५९९॥ मत्स्यमेदे एणभेदे च यथा- उकाकमार्जारगृध्रशंबरसूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥ गिरिभेदे यथा-शंबरः शिखरी सोऽयं शबराकोर्णगहरः । मायायामपि मंख:- शंबराउंबरं वीर जहीहि धीरगर्हितम् । शम्बरी पुनरोषधौ । ओषधि