________________
तृतीयः काण्डः
(२४९)
वामुरा वासिता राज्योभुवि विष्टर आसने । पादपे कुशमुष्टौ च विस्तारो स्तम्बविस्तृती॥५९५।। विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च । विकारो विकृतौ रागे विहारस्तु जिनालये ॥५९६॥ लीलायां भ्रमणे स्कन्धे बिदारो युधिदारूणे ।
विदारी रोगभेदे स्याच्छालपीक्षुगन्धयोः ॥५९७॥ वादरं कृमिजे जले। काकचिच्याश्च बोजे वाग्दक्षिणावर्तशंखयोः । वारयति वार्दरम् । जठरेत्यरे साधुः । वारिदोर्यते वा पश्चस्वथेषु । कृमिजमगुरु काकचिंचो गुंजा तस्यबीजे, वाग. वचनम् । दक्षिणावर्तशंखः शंखभेदः ॥५९४॥ वासुरा वासिता राज्योर्भुवि । वासण् उपसेवायाम् । वास्यते वासुरा । वास्यसीत्युरः । वासिता श्री । विष्टर आसने पादपे कुशमुष्टौ च । विस्तृणाति, विस्तीर्यते वा विष्टरः । वस्त्रे इति षत्वं । आसने कुशमुष्टौ च पुंक्लीवः । आसने यथा- महामहानील शिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे । पादपे कुशमुष्टौ च यथा- तापसा विष्टरप्रियाः । विस्तारौ स्तम्बविस्तृती । विसूरणं विस्तारः । वेरशब्देप्रथने (५-३.६९ ) इति पञ् । स्तम्बे यथा-आविस्तारोत्तरुषु विगता शंकमके विशन्ति । विस्तृतौ यथा- विस्ताररुद्धवसुधोन्वचलं चचाल लक्ष्मी दधत्प्रतिगिरेरलघुर्वलौघः ॥५९५॥ विदुरो नागरे धीरे धृतराष्टानुजेऽपि च । वेत्तीत्येवंशीलो विदुरः । वेत्तिच्छिदभिदः किदिति । घुरः । नागरघीरयोर्वाच्यलिङ्गः। नागरो नगरवासी। धीरो विद्वान् । तत्र यथा-वेदान्तविदुराः केऽपि केऽपि नैयायिकोत्तमाः । धूतराष्ट्रानुजः कौरवमन्त्री । तत्र यथा-श्रुत्वा विदुरवाक्यानि । विकारोविकृतौ रागे । विकरणं विकारः। द्वयोर्यथा-विकारः कोप्यन्तर्जडयति च तापं च कुरुते । विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे । विहरत्यस्मिन् अनेन विहरणं वा विहारः । जिनालयभ्रमणयोः पुंल्कीबः । जिनालये यथा- अधरो वीतरागस्ते काषायेते विलोचने । विहारः कण्ठदेशस्ते दूति प्रव्रजितासि किम् ॥ लीलायां भ्रमणे यथा-सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् । स्कन्धोंऽशः समूहो वा ।
-
१७