________________
तृतीयः काण्डः
(२४७)
लोष्टादिभेदने चापि मुहिरो मूर्खकामयोः । मुदिरः कामुके मेघे मकुरो मुकुरो यथा ॥५८९।। कुलालदण्डे बकुले कोरकादर्शयोरपि । मर्मुरो मन्मथे सूर्यतुरगे तुषपावके ॥५९०॥ रुधिरं घुसणे रक्ते रुधिरो धरणीसुते । वल्लरं मंजयोंः क्षेत्रेऽनम्भसि शाद्वले ॥५९१॥
यथा- महतोऽपि यन्न साध्य कश्चिल्लघुरेव तत्प्रसाधयति । गौहमिहिरस्तिमिरं न हरति दीपस्तु नाशयति । अम्बुदो जलदः । बुद्धः सुगतः । मुद्गरः कोरकास्त्रयोः ॥ लोष्टादिभेदने चापि ॥ मोदते मुद्गरः । मुदिगुरीभ्यां टिद्गजो चान्तौ इत्यरः (उ. ४०४) । कोरके यथा- तगरमुद्गरसुन्दरकन्दराः । अस्त्रे यथा- उद्गूर्णमुद्गरः कोऽपि दधावे संगरांगणे ॥५८८॥ लोष्टभेदने स्त्रीपुंसः । तत्र यथा- काष्ठमुद्गरविचूरितलोष्टः । आदिशब्दात्कर्करादिग्रहः । मुहिरो मूर्खकामयोः । मुह्यति मुहिरः । शुषीषोति किदिरः । मूर्ख वाच्यलिङ्गः । मुदिरः कामुके मेघे पोदते मुदिरः । शुषीषीति किदिरः । कामुके वाच्य. लिङ्गः । द्वयोर्यथा- मुदिरैः सुन्दरं वनम् । मकुरो मुकुरो यथा कुलालदण्डे बकुले कोरकादर्शयोरपि । मकुड् मण्डने । मंकते मकुरः मुकुरः । मंकेर्नलुक् वोच्चास्येत्युरः ॥१९॥ कुलालदण्डः कुम्भकारोपकरणयष्टिः । बकुलो वृक्षः । कोरके यथा- माकन्दमुकुरामोदमेदुरीभूतभूतलम् । आदर्शे यथा – दिक्कान्ता मुकुरे चकोर सुहृदि प्रौढे तुषारे विषि ॥ मुर्मुरो मन्मथे पूर्यतुरगे तुषपावके । क म श क हिंसायाम् । मूर्यतेऽनेन मुर्मुरः । किच्चेति किदप्रत्ययः । सरूपद्वित्वं च । मन्मथः कामः । सूर्यतुरगोऽश्विः । तुषपावके यथा- स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः १५९०॥ रुधिरं घुसणे रक्ते ॥ रुद्धयते रुणद्धि वा रुधिरम् । शुषीषीति किदिशः । द्वयोर्यथा- गन्धवद्रुधिरचन्द