________________
(२४६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि । मयूरः कैकिचूडाख्यौषध्यपामार्गकेकिनोः ॥५८६॥ महेन्द्रो वासवे शैले मंजरी तिलकद्रुमे । वल्लयां स्थूलमुक्तायां माठरो व्यासविषयोः ॥५८७॥ सूर्यानुगेऽथ मार्जारः स्यात् खट्वांशबिडालयोः॥
मिहिरोऽर्केऽम्बुदे बुद्ध मुद्गरः कोरकास्त्रयोः ॥५८८॥ एवं मसुरोऽपि । व्रीहिमेदे- मसुरः क्लीबेऽपीति गौरः ॥ मर्मरो वसनान्तरे ।। शुष्कपत्रध्वनौ चापि ॥ म्रियतेऽनेन मर्मरः । बाहुलकादप्रत्ययः । सरूपद्वित्वं च । मर्मरोऽस्यास्तीति वा । अभ्रादित्वादः । वसनान्तरं वसनभेदः ।।५८५॥ शुष्कपत्रध्वनो यथा-मदोद्धताः प्रत्यनिलम्विचेरुर्वनस्थलोमर्मरपत्रमोक्षाः ॥ मर्मरी पीतदारुणि ॥ पीतदारु द्रुममेदः ॥ मयूरः केकिचूडाख्यौषध्यपामार्गकेकिनोः ॥ मोनाति :मयूरः । मोमसीत्यूरः ( उ. ४२७) मयां रोति वा पृषोदरादित्वात् । केकिच्डा मयूरशिवानामौषविः । अपामार्गः ओषधमेदः । केकिनि यथा- अपि तुरगसमापादुत्पतन्तं मयूरम् ॥५८६॥ महेन्द्रो वासवे शैले ॥ महानिन्द्रः महेन्द्रः । वासवे यथाअसो महेन्द्रप्रभृतीनधिश्रियः । शैले यथा- असौ महेन्द्राद्रिसमानसारः 'पतिर्महेन्द्रस्य महोदधेश्च ॥ मञ्जरी तिलकद्रुमे ॥ वलयां स्थलमुक्तायाम् । मंजिः सौत्रः । मंजति मंजरी । ऋच्छिचटोत्यरः ( उ. ३१७) । वल्ला स्त्रीपुंसः । तत्र यथा- मृगाः प्रियालद्रुममंजरीणां रजःकणैर्विनितदृष्टिपाताः । माठरोव्यासविषयोः । सूर्यानुगे॥ मठति मठरः । ऋच्छिचटीत्यरः । मठरस्यापत्यं माठरः । विदादित्वादञ् । व्यासः पाराशयः । विप्रो ब्राह्मणः । सूर्यानुगे यथा- माठरः पिंगलो दण्डश्चण्डांशोः पारिपाश्चिकाः ।।५८७॥ अथ मार्जारः स्यात् खट्वांशविडालयोः । मार्टि मार्जारः । अग्यंगोत्यारः (उ. ४०५) बिडाले यथा- मार्जारमप्यानतनिश्चलानं यस्यां जनः कृत्रिममेव मेने । मिहिरोऽऽम्बुदे बुद्धे ॥ मेहति मिहिरः । शुषीषोति किदिरः (उ. ४१६) अर्के