________________
तृतीयः काण्डः
(२४५)
मधुरा मथुरापुर्या यष्टीमेदामधूलिषु । मधुकुर्कुटिकायां च मिश्रेया शतपुष्पयोः ॥५८२॥ मन्दिरो मकरावासे मन्दिरं नगरे गृहे । मन्थरः सूचके कोशे के मन्दे पृथौ मथि ॥५८३॥ मन्थरं तु कुमुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे । परिभद्रेऽर्कपणे च मसूरो मसुरोऽपि च ॥५८४॥ मसुरा मसरा च चत्वारो पण्ययोति ।
तथा बाहिविशेषेऽपि मर्मरो वसनान्तरे ॥५८५।। मधुग मथुरापुर्यां यष्टीमेदामधूलिषु ॥ मधुकुर्कटिकायां च मिश्रेयाशतपुष्पयोः ॥ यष्टी यष्टिमधु । मेदा ओषधिः । मधुलिः शर्करा । मधुकुक्कुटिका मातुलिङ्गीवृक्षः। मिश्रेया शतपुष्पा च ओषध्यौ । मन्दिरो मकरावासे ॥ ५८२ ॥ मंद्यते स्तूयते मन्दिरः । मदि मन्दीति (उ. ४१२ ) इरः । मकरावासः समुद्रः ॥ मन्दिरं नगरे गृहे ॥ गृहे स्त्रीक्लीबः । नगरे यथा- प्रावेशयन्मन्दिरमृद्वमेनम् । गृहे यथा - तरुणतपनभासो मन्दिराभ्यन्तरेषु ॥ मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि ॥ मध्नाति मन्थरः । ऋछिचटी ( उ. ३९७ ) ति अरः ॥ सूचके वक्र मन्दे पृथौ च वायलिङ्गः । सूचके यथा- मन्थरैर्मध्यते जगत् । वक्र मन्दे पृथौ च यथा – मदमन्थरमातङ्गकुम्भपाटनलम्पटः । कोशो भाण्डागारः । मन्थाः मन्थानकः ॥ ५८३॥ मन्थरं तु कुसुभ्यां स्यात् ॥ कुसुम्भी ओषधिभेदः । मन्दारस्त्रिदशद्रुमे ॥ प(पा)रिभद्रेऽर्कपणे च ॥ मन्यते स्तूयते मन्दारः। मग्यंगीति ( उ. ४०५ ) आरः ॥ त्रिदशद्रुमे यथा- करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोऽरुणांगुली । परिभद्रार्कपर्णी वृक्षौ । मसूरो ममुरोऽपि च ॥ मसुरा च मसरा च चत्वारो पण्ययोषिति ॥ तथा व्रीहिविशे-- षेऽपि ॥ मस्यति मसूरः । मीमसीत्यरः ( उ. ४२७)। वास्यसीत्युरे। मसुरः ॥५८४ ॥ स्त्रीपुंसलिङ्गत्वेनैव सिद्धे मसुरामसूराशन्दयोरुपादानं स्पष्टार्थम् । द्वयोर्यथा- मसूरपिष्टातकसृष्टदेहां दूरान्मसूरामक्लोक्य शूरः ।।