________________
(२४४)
अनेकार्थसंग्रहः सटीकः : : द्वितीयो विभागः
aracernm
कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ नके राशिविशेषे च मन्दरो मन्थपर्वते ॥५८०।। स्वर्गमन्दारयोर्मन्दे वहले मधुरं विषे।।
मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि ॥५८१॥ कनकालुका ॥ यथा-शङ्गाररसभृङ्गारस्तस्याः सौन्दर्यवीरुधः ॥ मत्सरः परसम्पत्यक्षमायां तद्वति क्रूधि ॥ कृपणे ॥ माधति अनेन, मावति वा मत्सरः । मोड्यतीति सरः । तदति कृपणे च दाभ्यलिङ्गः । परसम्पत्यक्षमायां क्रुधि च यथा-निर्मत्सरा एव गुणेषु सन्तः । तद्वति यथा-ख्यापका निजगुणेषु नियोगात् । मत्सराः परगुणेषु सदैव ॥५७९॥ कृपणे यथा-कृतविभवनिकारा मत्सराः कुत्र साराः ॥ मत्सरा तु स्यान्मक्षिका ॥ यथा-निदाघ'दिवस इव बहुमत्सरो वहात सन्तापं सुमन साम् ॥ मकरो निधौ ॥ नक्रे राषि"विशेषे च ॥ मंकते मण्डयति वा मकरः । जठरककरेति साधुः । निषो यथामहापद्मश्च पाश्च शंखो मकरकन्छपो । नके जलचरविशेष यथा-कल्लोलवेल्लितदृषत्यरुषप्रहारै रत्नान्यमूनि मकराकरमावस्थः । राशिभेदे यथा- मेषेऽकर्को वृपे चन्द्रो मकरे भौम एव च ॥ मन्दरो मन्यपर्वते ॥ स्वर्गमन्दारयोमन्दे वहले ॥ मन्दते मन्दरः। ऋछिचटोत्यरः (उ. ३९७) । पश्चस्वर्थेषु । मन्थपर्वते यथा -शोभैव मन्दरक्षुब्धक्षुभितांभोधिवर्णना ॥५८०॥ स्वर्गे यथा- सवधूका: सुखिनोऽस्मिननवरतममन्दरागतामरसदृशः । मन्दारः सुरतरुः । - मन्दोऽलप्तः । बहलो बहुलः । मायोर्वाच्यलिङ्गः ।। मधुरं विषे ॥ मापत्यनेन - मधुरम् । श्वशुरकुकुन्दरेति साधुः । यथा-मधुरं दुनोति कुष्ठम् । मधुरस्तु प्रिये स्वादों रसे च रसवत्यपि । मधु विषतेऽत्र मधुरः । मध्यादिभ्यो रः । रसबर्न त्रिष्वपि वाच्यलिङ्गः । प्रियं मनोज्ञं तत्र यथा-किमिव मधुराणां मण्डनं नाकृतोनाम् । स्वादु मृष्टम् । तत्र यथा-ताम्बूलं कटुतिक्तमुण्णमधुरं क्षारं कषायान्वितम् ॥ रसो गुल्यः(गुल्मः) तत्र यथा-मधुनो मधुरो रसः ॥ रसवति यथा- मधुरमय किं तस्यापि प्रसन्नरस फलम् ॥५८१॥