________________
तृतीयः काण्डः
(२४३)
बदरी कोलिकार्पास्योः बदरन्तु तयोः फले। बदरस्तु कर्पासास्थि भंगुरो वक्रनश्वरौ ॥५७७।। भ्रामरं मधुषदोर्भास्करो वद्विधर्ययोः । भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः ॥५७८।। भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ।
मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ॥५७९।। पण्या विष्णुकान्तौषधावपि । वद स्थैर्ये । वदति वदग। ऋच्छि चटी (उ.३९७) त्यरः ॥५२६॥ वदरी कोलिकास्यिोः ॥ अर्थविशेषे । गौरादित्वाड्डोः (२-४-१९) कोल्यां यथा-तुभ्यं दासेरदासीयं वदरी यदि रोचते । कार्पासी वमनी ॥ वदरं तु तयोः फले ॥ वदर्याः फलं वदरम् । यथा - . करवदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ॥ वदरस्तु कासास्थि ॥ कास्यास्थि बीजं तत्र ॥ भंगुरो वक्रनश्वरौ । भज्यते इत्येवंशीलो भंगुरः । भंजि भासि मिदो धुरः (५-२-७४) वाच्यलिङ्गः । वक्रे यथा – केरली चिकुरभंगिभंगुरम् । नश्वरे यथा - समागमाः सर्वमुत्पादि भंगुरम् ॥५७७॥ भ्रामरं मधुदृषदोः॥ भ्रमरैः कृतं भ्रामरम् । नाम्नि मक्षिकादिभ्य (६-३-१९३) इत्यण् । भ्राम्यति वा । जठरककरेति साधुः । मधुनि यथा-माक्षिक तैलवर्ण स्यात् घृतवर्ण च पौत्तिकं ( पौत्रिकम् ) । भ्रामरं तु भवेच्छुक्लं: क्षौद्रं तु कपिलं भवेत् । दृषद् पाषाणविशेषः । भास्करो वहिर्ययोः॥ भासः करोति भास्करः । संख्याहर्दिवेति टः । (५-१-१०२) कस्कादित्वात् सकारः। वहीं यथा-सुवविनिहितहव्यैर्भास्करं तर्पयन्ति । सूर्ये यथा-कल्याण वः क्रियासु किसलयरुचयस्ते करा भास्करस्य | भार्योकरन्यस्त्रीपुत्रोत्पादके : मृगशैलयोः ॥ भार्यामियति भार्योरुः । अत्तरुचेति । उप्रत्यय ऊकरादेशश्च ।। विभर्ति वा। शिघुगेरुनमेर्चादय इतिसाधुः । अन्यस्त्रीपुत्रोत्पादकः । क्षेत्रजपुत्रोत्पादयिता। मृगो मृगविशेषः । शैलः शैछमेदः ।।५७८।। भृङ्गारी तु चीरिकायाम् ॥ भृङ्गवदियति भृङ्गारी । भ्रियते वा । द्वारगृङ्गारेति साधुः। चोरिका झिलिका । भृक्षारः