________________
तृतीयः काण्डः
(२४१)
पांडुरं तु मरुवके पिंडारो भिक्षुके द्रुमे । महिषीपालके क्षेपे पिठरं मथि मुस्तके ॥५७१॥ उखायां च पिंजरस्तु पीतरक्तेऽश्वभिद्यपि । पिंजरं शातकुंभे स्यात्पीवरः स्थूलकूर्मयोः ॥५७२॥ पुष्करं द्वीपतीर्थाहिखगरागौषधांतरे ।।
तूर्यास्येऽसिफडे कांडे झुंडाग्रे खे जलेऽम्बुजे ॥५७३॥ यथा-समूढकर्पूरपरागपांडुरम् ।। ५७०॥ पांडुरं तु मरुवके । मरुबकः फणिज्मकः ॥ पिंडारो भिक्षुके द्रुमे । महिषीपालके क्षेपे ॥ पिंडाय पिंडं वा इयर्ति पिंडारः । महिषीपालके यथा - महिषीदोहवैदग्ध्यं पिंडारे न तु पंडिते । क्षेपो निंदा ॥ पिठरं मथिमुस्तके ॥ उखायां च ॥ पिठ हिंसासंक्लेशयोः । पिठति पिठरम् मृधुन्दीति किदुरः (किदरः) उखायां त्रिलिंगः। मंथा मथानकः । मुस्तक: कंदमेदः पुस्तके लेप्य कर्मणोति मंखः ॥५७१॥ उखायां यथा – भक्तापूर्णे जठरविवरे देहिनां संभवंति ॥ पिंजरस्तु पीतरक्तेऽश्वभिद्यपि ॥ पिजुण हिंसादौ पिंजयति पिंजरः । ऋछिचटीत्यरः । पीतरक्ते वणे पुंसि तदति वाच्यलिंगः तत्र यथा- गात्राण्यकुंकुमविलेपनपिनराणि ॥ पिंजरं शातकुंभे स्यात् ॥ यथानरसा जर्जरं पश्य कीरं पिंजरपंजरे ॥ पीवरः स्थूलकूर्मयोः ॥ प्यायते पिरति वा पीवरः । तीवरधीवरेति साधुः । स्थूले वायलिंगः तत्र यथा- पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी । कर्मे कच्छपे यथा-धीवरैः पीवरो धृतः ॥५७२॥ पुष्करं द्वोपतीर्थाहिखगरागौषधांतरे ॥ तूर्यास्येऽसिफले कांटे शुंडाने खे जलेऽम्बुजे ॥ पुष्णाति पुष्यति वा पुष्करम् । पुषिभ्यां किदिति करः ॥ त्रयोदशस्वर्थेषु । द्रोपादीनां षण्णां अंतरशन्दः प्रत्येकं अभिसंबध्यते । तत्र दीपांतरे अबुजे च यथा-दोपस्य तं पतिममुं भज पुष्करस्य निस्तन्द्रपुष्करतिरस्करणसमाक्षि । थोर्थान्तरे यथा - मा गयां गच्छ कौन्तेय मा गंगा मा च पुष्करम् । अहिमेदे खगांतरे च यथा- दुष्करः पुष्करग्रहः । रागांतरे यथा- पुष्करः सुकरः कृतः । ओषधान्तरे यथा-क्षुद्रामृतानागरपुष्कराख्यैः । तूर्यास्ये यथा- ऋव्यात्पुगैः पुग्फराण्यानकानां प्रत्याशाभिः मेदसोदारितानि ।