________________
(२४०)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
ओघोपकरणे चापि पवित्रा तु नदीभिदि । प्रांतर कोटरेऽरण्ये दूरशून्यपथेऽपि च ॥५६८॥ पार्परो भस्मनि यमे जराटे नीपकेसरे । क्षयरोगे भक्तसिक्त्वे पामरो नीचर्खयोः ॥५६९॥ पाटीरो मूलके वंगे तितउः वातिकेंबुदे।
केदारे वेणुसारे च पांडुरो वर्णतद्वतोः ॥५७०॥ अनेन पवित्रम् । ऋषिनाम्नोः करणे इतीत्रः । मेध्ये पावने पुंक्लीवः । वाध्यलिंगः इत्यन्ये । तत्र यथा-जगत्पवित्रैरपि तन्न पादैः स्प्रष्टुं जगत्पूज्यमयुग्यताकः । ताने शुल्बे यथा-पवित्रेऽभ्युद्धरेन्मंत्रम् । कुशे कुशविकारे यथा-सदैव धारयेद्विषः पवित्र दक्षिणे करे । जले यथा-विप्राः पविौः सवनं वितन्वते ॥५६७।। ओपोपकरणम् ऊर्जातंतुसंततिनिर्मितं जैनमुनोनां रजोहरणम् तत्र यथा-पवित्रपाणयोर्दिवास्तत्राजग्मुर्मुनीश्वराः ॥ पवित्रा तु नदीभिदि ॥ नदीमित् नदाविशेषः ॥ प्रांतरं कोटरेऽरण्ये दूरशून्यपथेऽपि च ॥ प्रकृष्टम् अंतरं प्रगतमंतरेण वा प्रांतरम् । कोटरेऽरण्ये यथा- कृतं गिरिप्रांतरगोचरैस्तपः । दूरशून्यपये यथा-सुरलोकादवतारप्रांतरखेदच्छिदं वंदे ॥५६८॥ पार्परो भस्मनि यमे जराटे नीपके सरे । क्षयरोगे भक्तसिक्त्वे ॥ पारयति पार्परः । जठरककरेति साधुः । जराटो वृक्षः । नीपकेसरः कदम्बस्य किंजल्कः ॥ पामरो मूर्खनीचयोः ॥ पासि पामरः जठरक्रकरेति साधुः । वायलिंगः द्वयोर्यथा-किं पुष्पितेन विजहीहि विकासहासमुद्दामपामरघना मरुभूमिरेषा ॥५६९॥ पाटीरो मूलके वंगे तितो वातिकेम्बुदे ॥ केदारो वेणुसारे च॥ पाटयति पाटीरः । जंबीराभीरेति साधुः। मूलकं शाकमेदः । वगं त्रपु । तितउः चालनी । वातिको गारुडिकः । अंबुदो मेघः । केदारः क्षेत्रविशेषः । वेणुसारो वंशसारः ॥ पांडुरो वर्णतद्वतोः॥ पंडते पांडुरः श्वशुरकुकुंद्रेत साधुः । पांडुवर्णोऽस्त्यस्येति वा । मध्वादिभ्यो रः । सद्वति वायलिंगः । वर्णे यथा-गंडयोः पांडुरो वर्णो विरहे हरिणीदृशाम् । तद्वति