________________
तृतीयः काण्डः
(२३९)
भंगे रोगे प्रसरस्तु संगरे प्रणये जवे । प्रकारः सदृशे भेदे पंकारो जलकुजके ॥५६६।। सोपाने शैवले सेतो पदारः पादलिषु ।
पादालिंदे पवित्रं तु मेध्ये ताने कुशे जले ॥५६७।। अर्थप्रकृतौ यथा-बीजं बिंदुः पताका च प्रकरी कायलझणा । अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥ चत्वरावनिश्चत्वरभूमिः ।। प्रस्तरः प्रस्तारे ग्राब्णि मणौ च ।। प्रस्तीर्यते प्रस्तरः । प्रस्तारे यथा-कुवलयदलशस्तप्रस्तरे स्रस्तरेऽस्या : । ग्राणि यथा-असावहं लोह पय। स यस्या जातः पुनः प्रस्तर एव कांतः । आकर्षकद्रावकचुंबकानां नैकोऽप्यसो भ्रामक इत्यवैमि ॥ मणौ यथा--प्रशस्तप्रस्तरोइंडखंडमंडित कुंडलः ॥ प्रदरः शरे । मंगे रोगे ।। प्रदीर्यते अनेन प्रदरः । पुनाम्नि घः । प्रदरणं वा । शरे यथा-प्रदरदातिसंनहनोदरहतगलदुधिराऽरुणवक्षसः ॥५६५।। भंगो भयं घोभावो वा । तत्र यथा-स वोरकु जरो यस्य प्रदरो नैव संगरे । रोगो रोगविशेषः स्त्रीणां रुधिरप्रवाहलक्षणः । तत्र यथा-नारीणां प्रदराद्वरः॥ प्रसरस्तु संगरे प्रणये जवे ॥ प्रसरत्यत्र प्रसरः । पुनाम्नि घः प्रसरण वा बाहुल कादछ । संगरे संग्रामे यथा-दुर्वारो वैरिवीराणां प्रसरः कातरै रैः । प्रणये प्रेम्नि यथापरस्परं सप्रसरं वधूवरम् । जवे वेगे यथा-शक्येत प्रसरो रोर्बु नानुरक्तस्य चेतसः। प्रपंचव्यायामायोरपि मंखः । प्रपंचे यथा-त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत्प्रसरस्य सोमा । व्यायामे अभ्यासार्थ अंगपरिश्रमे यथा-प्रसरकर्मणि कर्मकृतानितस्तत इतः प्रसरत्यनिश बलम् ॥ प्रकारः सरशे भेदे ॥ प्रक्री-- यते प्रकारः सदृशे धर्ममात्रे पुंसि। तइति वाच्यलिंगः तत्र यथा-विषप्रकार: पिशुनोपचारः । मेदे यथा-नानाप्रकाररसमध्यगतापि दीं ॥ पंकारो जलकुजके. सोपाने शैवछे सेतौ ॥ पंकमियर्ति पंकारः । चतुर्वर्थेषु ॥५६६॥ पदारः पादलिषु ॥ पादालिंदे ॥ पदमियर्ति पदारः । पादालिंदः पादपीठम् ।। पवित्रं तु मेध्ये ताने कुशे जले । ओघोपकरणे चापि ॥ प्यते