________________
(२३८)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
न्यायदातव्यवित्ते च निर्वरं तु गतत्रपे । कठिने निर्भये सारे निकारस्तु पराभवे ॥५६२॥ धान्याक्षेपे नीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्ठे च प्रखरः पुनः ॥१६३॥ वेसरे हयसन्नाहे कुक्कुरेऽतिभृशं खरे । प्रकरः कीर्णदुष्पादौ संहतौ प्रकरं पुनः ॥५६४॥ जोगके प्रकरीत्वर्थप्रकृतौ चत्वरावनौ।।
प्रस्तरः प्रस्तारे ग्राणि मणौ च प्रदरः शरे ॥५६५|| न्यायदातव्यवित्ते यथा-निकरं नृपतेर्ददौ ।। निवरं तु गतत्रपे । कठिने निर्भये सारे॥ निर्बियते निर्वरम् । वाच्यलिंगः। चतुर्वपि यथा- निर्वरा वर्वरा युधिः ।। निकारस्तु पराभवे ॥ धान्याक्षेपे ॥ निकृतिनिकारः । भावकोरिति घन । निकीर्यते वा किरोधान्ये इति घञ् । पराभवे यथा-सुदुःसहं प्राप्य निकारमीदृशम् ॥ ५६२ ॥ धान्याक्षेपे यथा-निकारो धान्यानां रचयति विशुद्धि दृढतराम् ॥ नीवरस्तु वास्तव्येऽपि वणिज्यपि ॥ नयति नीवरः । नीमीकृतुचेदीर्घश्चेति वरद । वास्तव्ये वाच्यलिंगः ॥ प्रवरं संततौ गोत्रे श्रेष्ठे च ॥ प्रवियते प्रवरम् । भळ । गोत्रे पुंश्लीबः । श्रेष्ठे वायलिंगः । संततौं यथा-प्रवराघ्यायपाठकः । गोत्रं गोत्रविशेषः तत्र यथा-समानप्रवरास्तथा । श्रेष्ठे यथा-वाल्मीकिना कविजनप्रवरेण गोते ॥ प्रखरः पुनः॥ वेसरे हयसभाहे कुक्कुरेऽतिभृशं खरे ॥ अतिशयेन खरः प्रखरः चतुवर्थेषु ॥५६३॥ वेसरे कुक्कुरे च यथा- श्रवणो सत्रणी जातौ प्रखरस्य खरस्वरैः । हयसन्नाहे यथा- प्रखरैजिनो रेजुर्गरुत्मंत इवाधिकम् । अतिभृशं खरे गुणे पुंसि तद्वति काध्यलिंगः । तत्र यथा-तावत् खरः प्रस्वरमुल्लमयां चकार ॥ प्रकरः कीर्णपुष्पादौ । संहतो ॥ प्रकीर्यते प्रकरः । कीर्णपुष्पादो यथा-चतुष्कपुष्पप्रकरावकोर्णयोः । संहतो यथा-अनेन ससृजेतरां तुरगमेषमुक्कभ्रमत्तुरंगखुरचंद्रकप्रकरदंतुरा मेदिनी ॥ प्रकरं पुनः ॥५६४॥ जांगके । नोगकम् अगर ॥ प्रकरी त्वर्थप्रकृतौ चत्वरावनौ । गौरादीत्वाइडोः ।