________________
तृतीयः काण्डः
(२३७)
नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । शुठीमुस्तकपौरेषु निर्जरस्त्वजरे सुरे ॥५६०।। निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि ।
निर्नरोऽश्वेि तुषाग्नी निकरः सारसंघयोः ॥५६१॥ दुःखेन ध्रियते दुर्धरः । खल् । दुःखधार्ये वाच्यलिंगः । तत्र यथा- वन्येभदानानिलगंधदुर्धराः ।। धूसरस्तु रासभे स्तोकपांडुरे ॥ धुवति धूसरः। कृधूतन्मूषिभ्यः किदिति सरः । रासभे यथा- धूसरे प्रप्सरः कुतः । स्तोकपांडुरे गुणे पुंसि तद्वति वाच्यलिंगः तत्र यथा- वसुधालिंगनधूसरस्तनी ॥५५९।। नरेंद्रो वार्तिके राज्ञि विषवैद्ये ॥ नरेष्विद्रो नरेन्द्रः । वार्तिको धातुवादी तत्र यथारसेंद्रबंध विदधौ नरेंद्रः । राज्ञि विषवैये च यथा- सुनिग्रहा नरेंद्रेण फणींद्रा इव शत्रवः ॥ अथ नागरम् । शुंठोमुस्तकपौरेषु ॥ नगरे भवं नागरम् । पोरे वायलिंगः। शुंठ्यां मुस्तके च यथा- मुमूर्षों किं तवाचापि चव्यचित्रक-नागरैः । पोरे यथा- यः पुण्य(पण्य)खोरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभिविनानि । यानपात्रस्तंभनोपकरणेऽपि । यथासैन्यं तैः स्थापितं स्थाने वहिमिव नागरैः ॥ निर्जरस्त्वजरे सुरे ॥ निर्गता जरा अस्मात् निर्ज': । अजरे वायलिंगः । तत्र यथा- अमरो निर्जरो भूया वत्स बांधववत्सला । सुरे यथा- आलानकर्म खलु निर्जरकुंजरस्य ॥५६०॥ निर्जरा तु तालपत्र्यां गुड्च्यां तत्त्वभिद्यपि ॥ नि यति निर्जरणं वा निर्जरा । तालपत्री गुडूच्यौ ओषधी । तत्त्वभिदि यथा- संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामाकामवर्जिता ॥ निरोऽश्वेि तुषाग्नौ ॥ निर्गुणाति निर्नरः । अर्काश्वः सूर्याश्वः । तुषाग्निः करोषाग्निः ॥ निकरः सारसंघयोः ॥ न्यायदातव्यवित्ते च ॥ निकीयते असौ निकरः नियतः कारो वा। सारे यथा-प्रियं सत्यं वाच्यं सुदति वचसामेष निकरः । संघे यथा-कुहूशब्दो जातः पिकनिकरकंठेकशरणः ॥५६॥