________________
(२३६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
वाद्यभांडे शैलभेदे दर्दुरं ग्रामजालके । दर्दुरोमा दर्दरः स्यादोषद्भग्ने गिरावपि ॥५५७॥ दंडारो वहने मत्तवारणे शरयंत्रके । कुंभकारस्य चक्रे च द्वापरं संशये युगे ॥५५८॥ दासेर उष्ट्रे चेटे च दुर्धरस्त्वृषभौषधौ ।
दुःखधार्ये धूसरस्तु रासमें स्तोकपाण्डुरे ॥५५९॥ अस्य संति दंतुरः । दंतादुन्नतादिति डुरः । विषमे तूपचारात् । वाच्यलिंगः । उन्नतदंते यथा – हस्योष्ठं दंतुरं वक्रं वक्त्रं यस्य स दुर्भगः । विषमे यथाअनेन ससृजेतरां तुरगमेघमुक्कभ्रमत्तुरंगखुरचंद्रकप्रकर दंतुरा मेदिनी ॥ दर्दुरो भेकमेघयोः। वाद्यभांडे शैलभेदे ।। दृणाति दर्दुरः । श्वशुरेति साधुः । दर्दशब्दं राति वा । मेके यथा- स नरः कूपदर्दुरः । मेघे यथा- स्वैरं वर्षति द?रः ॥५५६॥ वाद्यभांडे यथा- पर्यंतवम॑सु विचक्रमिरे महाश्वाः शैलस्य दर्दरपुटानिव वादयंतः । शैलभेदे यथा – स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ददं ग्रामजालके ॥ ग्रामजालकं ग्रामसमूहः ॥ दर्दुरोमा । उमा गौरी ॥ दर्दरः स्यादीषद्भग्ने गिरावपि ॥ दीर्थते दर्दरः । ऋतष्टिदिति अप्रत्ययः । सरूपद्वित्वं च । ईषद्भग्ने वाच्यलिंगः । वाधभांडेऽपि । दर्दरी सस्यलंटावपि ॥५५७॥ दंडारो वहने मत्तवारणे शरयंत्रके । कुंभकारस्य चक्रे च ॥ दंडेन ईयर्ति दंडारः । चतुर्वर्थेषु । वाहनं यानपात्रम् । मत्तवारणो मतांगजः । शरयंत्रकं शरक्षेपको यंत्रविशेषः ॥ द्वापरं संशये युगे ॥ द्वौ पक्षौ परौ यत्र द्वाभ्यां कृतयुगत्रेताभ्यां परं वा द्वापरम् । पृषोदरादित्वात्साधुः । संशये पुंकीवः युगे तु क्लीबेपुंसीति गौरः। संशये यथा- स्थाणुर्वा पुरुषो वेति द्वापरः परमो मम । युगे यथा- द्वापरे द्रोणपाथी च ॥५५८|| दासेर उष्ट्र चेटे च ॥ दासी रीर्यते दासेरः । दास्या अपत्यं वा । क्षुद्राभ्य एरण वा इति एरण प्रत्ययः । द्वयोर्यथा- तुभ्यं दासेरदासीयं बदरी यदि रोचते । एतावतापि किं द्राक्षा न साक्षादमृतप्रदा(पा) ॥ दुर्धरस्त्वृषभौषधौ ॥ दुःखधार्ये ।।