________________
तृतीयः काण्डः
(२३५)
तमस्ततिः तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणि मुनौ तुषारो हिमदेशयोः ॥५५४॥ शोकरे हिमभेदे च तुबुरी धान्यकंशुनी। तूवरोऽश्मश्रुपुरुषे प्रौढाऽशृंगानडुह्यपि ॥५५५ । दहरो मूषिका स्वल्पभ्रात्रोडिम्भेऽथ दंतुरः।
उन्नतदंते विषमे दर्दुरो भेकमेघयोः ॥५५६॥ मूर्छा त्रि नगदगदकाराकरणैः ॥ तिमिर तु दृष्टिरोगांधकारयोः ।। तिम्यताव तिमिरम् । शुषोषोति किदिरः । अंधकारे पुंक्लोब: । द्वयोर्यथाहिमधवलदंतकेशी मंदद्युतितारका बृहत्तिमिरा । द्विगुणीभूता रजनी वृद्धव शनैः शनैर्याति ॥ तित्तिरिः पक्षिणि मुनौ ॥ तरति तित्तिरिः । दृभूमीति इ प्रत्ययः । ति त्तरादेशश्च पुंसि । पश्चिणि यथा -कुक्कट तित्तिरिलाव कमेषैर्महिषैश्च या रणक्रीडा । मुनिर्वेदशाखयोः प्रवक्ता । तत्र यथा – कठिनात्कठिनो जातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात् तित्तिरिस्तित्तिरीसुतः ॥ तुषारो हिमदेशयोः ॥ शोकरे हिमभेदे च ॥ तुष्यत्यनेन तुषारः । तुषिकुठिभ्यां किवे देत्यारः । तुषमियति वा । हिमे पुंक्लोवः । तत्र यथा – पर्द तुषानुतिधौताक्तम् । देशभेदे यथा - तुषारजातैश्चतुरैस्तुरंगैः ॥५५४॥ शोकरे यथा - स्नपनवारितुषारभृतः स्तनाः । हिमभेदोऽवश्यायः । तत्र यथाअसरलजनाश्लेषः करस्तुषारसमीरणः ॥ तुंबुरी धान्यकंशुनी ॥ तुंवति अर्दयति तुबरी । श्वशुरकुकुंदरेति साधुः । धान्यकं कुस्तुंबुरु । शुनो सरमा । तूवरोऽश्मश्रपुरुषे प्रौढाऽशृंगानडुद्यपि ॥ तवीति तूबरः । नीमीक्रुतुचेर्दीर्घश्चेति घरट् । अश्मश्रपुरुषो निष्कूर्चः पुमान् । प्रौढो यौवनस्थो योऽशंगोऽनड्वान् बलीवर्दस्तत्र । द्वयोर्यथा – तूबरस्य हृदयेऽपि संस्थितं शौर्यमत्र न विभाव्यते जनैः ॥ ५५५ ॥ दहरो मूषिका स्वल्पभ्रात्रोर्डिंम्भे ॥ दहते दहरः । दहरजठरेति बहुवचनात् साधुः त्रिश्वर्थेषु । मूषिका उंदरी । स्वल्पभ्राता लघुभ्राता । डिंभः शिशुः । अथ दंतुरः ॥ उन्नतदंते विषमे ॥ उन्नता दंता