________________
(२३४)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
जलेंद्रो जंभकेऽम्भोधौ वरुणेऽप्येथ झर्झरः । वाधे नदे कलियुगे झलरीवत्त झल्लरी ॥५५१॥ वाद्यभेदे केशचक्रे टंकारो ज्यारवेऽद्धते । प्रसिद्धौ चाथ टगरष्टंकणकेकराक्षयोः ॥५५२॥ टट्टरी त्वनृताख्यानलंपापटहवाद्ययोः ।
तमित्रं तिमिरे कोपे तमिस्रा दर्शयामिनी ॥५५३।। शय्याम् ॥५५०।। जलेंद्रो जंभकेऽम्भोधौ वरुणेऽपि ॥ जलस्येंद्रो जलेंद्रः जंभको वृक्षः । अम्भोधिः समुद्रः । वरुणः प्रतीचीपतिः ॥ अथ अझरः वाधे नदे कलियुगे ॥ झीर्यति झझरः ऋतष्टिादेति अप्रत्ययः । सरूपद्वित्वं च ॥ वादो नदे च यथा-झर्झरध्वनितजर्जरकणः ॥ झलरीवत्त झल्लरी ॥ वाद्यभेदे केशचक्रे ॥ झल्लेति झल्लेति च शब्दं गति झलरी झल्लरी। नाम्युपांत्येति बहुवचनात्किदिः । इतोक्त्यर्थादिति डी: (२-४-३२) ॥५५१॥ वाद्यमेदे यथा-झात्कारैझल्लरोणां वदधति गणकाः पाणिना पाणियोगम् । केशचक्रं गुलंछोभूताः केशाः । छत्रांतलम्बमानवस्त्रेऽपि । यद्वैजयंती । छत्रांतालंबिवस्त्रे तु मल्लरीः केशवाद्ययोः ॥ टंकारो ज्यारवेऽद्भुते । प्रसिद्धौ च ॥ टनितिकरणं टंकारः । ज्यारवे यथा-टंकारं स्मरकार्मुकस्य सुरतक्रीडा पिकीनां रवः । अद्भुते प्रसिद्धौ च यथा-शक्रसंहारटंकारो धराधर तव स्फुटम् ॥ अथ टगरष्टंकणकेकराक्षयोः ॥ टंक्यते टगरः । जठरककरेति साधुः । केकराक्षा वक्राक्षः ॥५२॥ टट्टरी त्वनृताख्यानलंपापटहवाघयोः ॥ तन्यते रट्टरीजठरेति साधुः । टिटेति शब्दं राति वा । अनृताख्यानं मृषाभाषणम् । लंपापटहः पटहविशेषः । तदाख्यं वाद्यम् ॥ तमिस्र तिमिरे कोपे ॥ तमोऽस्त्यत्र तमिनम् । तमिनार्णवण्योत्स्नेति साधुः । द्वयोर्यथा-नभ इव वितमिस्रं भासते साधुचित्तम् ॥ तमिस्रा दर्शयामिनी ॥ तमस्ततिः । दर्शयामिनी अमावास्या रात्रिस्तत्र यथा-तमिस्रया शुक्लनिशेवनात्र ॥५५३॥ तमस्ततो यथा-तमित्रा