________________
तृतीयः काण्डः
(२३३)
करवाले च रज्जौ च छित्वरो वैरिधर्तयोः । छित्त्वरं छेदनद्रव्ये जठरः कुक्षिवृद्धयोः ॥५४९।। कठिने च जर्जरं तु वासवध्वजजीर्णयोः। जंबीरः प्रस्थपुष्पाख्यः शाके दंतशठद्रमे ॥५५०॥
रल्लकान् लासयंतः । चंचले यथा-करगकुशांकुरचिकुराः । कुरंगका मेकदा स्युर्वा । शैलः शैलविशेषः । भ्रवलयेऽपि मंखः । यथा-तां वीक्ष्य लीला चिकुरामनंगः स्वचापसौदर्यमुदं मुमोच । लोलाचतुरामिति पाठान्तरम् ।। छिदिरोऽग्नौ परश्वधे ॥ करवाले च रज्जौ च ॥ छिनत्ति छिद्यते व छिदिरः । शुषोषीति किदिरः । परश्वधे करवाले च यथा-छिदिरछेदितच्छत्रः ॥५४८॥ छित्वरो वैरिधर्तयोः । छिनत्ति छित्त्वरः । छिद्यते अनेन वा । तीवरधीवरेति साधुः । वाच्यलिंगः । द्वयोर्यथा-जित्वरश्छित्वरो नेष्टः । छित्वरं छेदनद्रव्ये ॥ छेदनद्रव्यं वास्यादि । जठरः कुक्षिवृद्धयोः। कठिने च ॥ जायते जठरः । जठरक्ररेति साधुः । कुक्षौ पुंक्लीबः कठिने गुणे पुंसि । तद्वति वृद्धे च । वायलिंगः । कुक्षौ यथा-जठरपिठरीदुष्पूरेयं करोति विडंबनाम् ॥५४९॥ कठिने यथा-जठरं पिठरं वोढा वठरः पाठमंथरः ॥ जर्जर तु वासवध्वजजीर्णयोः ॥ जीर्यति जर्जरम् । ऋति ष्ठिदिति अप्रत्ययः । सरूपद्वित्वं च यंत्रशांत्यर्थं पार्थिवैरिंद्रः पूज्यते इंद्रद्वादश्यां स वासवध्वजः । तत्र यथा-द्वादश्यां भूभुजः शांत्यै वरिवस्यति जर्जरम् । जोर्णे वाच्यलिंगः । यथाजरसा जर्जरस्यापि खर्जूः । खजूरभक्षणे । विशीर्णसछिद्रयोरपि मंखः। विशीर्णे यथा-कृत्वा पुंवत्पातमुच्चैगुभ्यो मूर्ध्नि ग्राणां जर्जरा निझरौघाः । सछिद्रे यथा-नैवं चेद्दीर्घमास्तां नटबटुवदने जर्जरा काव्यकथा ॥ जंबीर: प्रस्थपुष्पाख्यः (पुष्पदन्ताख्यः) शाकेदंतशठद्रुमे ॥ जायते जंबीरः । जंबीराभोरेति साधुः । प्रस्थपुष्पः फणिज्जुकः । दंतशठो जंभलः कपित्थेऽपि । द्वयोर्यथा- भक्त्वा जंबीरझाटे (काटे) दिनमनुसरणि प्राज्य (प्राश्य)वानीर