________________
(२३०)
अनेकार्थसंग्रहः सटीकः द्वितीयो विभागः
खर्परस्तस्करे भिक्षापात्रे धर्तकपालयोः । खपुरो मुस्तके पूगे लसके खपुरं घटे ॥५४०॥ खर्जरं सूप्यफलयोः खर्जरः कोटवृक्षयोः । खंडाभ्रमभ्रावयवे स्त्रीणां दंतक्षतांतरे ॥५४१॥ खदिरी शाके खदिरो दंतधावनचंद्रयोः । खिखिरस्तु शिवाभेदे खट्वांगे वारि वालके ॥५४२॥
नगर्याः । पाटके एकदेशे ॥५३९॥ खपरस्तस्करे भिक्षापात्रे धर्तकपालयोः॥ खदति खादत्यनेन वा खर्परः । जठरक्रकरेति साधुः। तस्करे यथा- मुष्णात्यवंती रजनीषु खर्परः । भिक्षापात्रे कपाले च यथा-भवंति योगिनः प्रायः खंडखर्परभोजिनः । । वंचकः तत्र वाच्यलिंगः ।। खपुरो मुस्तके पूगे लसके । खपुरति खपुरः । लसको वृक्षभेदः । त्रिष्वपि यथा- मुखरंजनकोविदस्य कः खपुरस्यात्र न संमुखोऽभवत् ॥ खपुरं घटे । यथा-कूपांतः परिप्रयन्ति खपुरं पौराङ्गना वारिभिः ॥५४०॥ खरं रूप्यफलयोः ॥ खाते खजूरम् । मोमत्सीत्यूरः । रूप्ये यथा- खजूगदर्शतुलां याति स्फटिकाश्मभित्तिषु विवस्वान् । फले फलविशेषे यथा-जरसा जर्जरस्यापि खर्जूः खबूरभक्षणे ॥ खजूरः कीटवृक्षयोः ॥ कीटे यथा-खजूरवृश्चिकसरीसृपभोषणेषु । वृक्षे यथा-खजुरद्रुमदनजंघमसितत्वक्नद्धविष्वक् ततः स्नायुग्रंथिवनास्थिपंजरजरत्कंकालमालोक्यते ॥ खंडाभ्रमभ्रावय वे स्त्रीणां दन्तक्षतांतरे ॥ खंड च तत् अभ्रं च खण्डाभ्रम् । खंडाभ्रसदृशं वा । द्वयोर्यथादंताग्रलेख्यं परिमंडलं यत् खंडाभ्रतुल्यं विषमोन्नतं च। खंडाभ्रक तद्विबुधैः प्रयोज्यं सोमंतिनीनां सनमण्डलेषु ॥५११॥ खदिरी शाके ॥ खद हिंसायाम् चखदति खदरी (खदिरि ) । मंदिभंदीति इरः । गौरादित्वाड्डीः ॥
खदिरो दन्तधावनचंद्रयोः॥ दंतधावनो वृक्षविशेषः । तत्र यथा-ज्वलितखदिरकाष्ठांगारगौरं विवस्वान् ॥ खिखिरस्तु शिवाभेदे खट्वांगे वारि वालके ॥