________________
तृतीयः काण्डः
(२२९)
तुरंगसिंहयोः स्कंधकेशेषु बकुलद्रुमे ।
नागवृक्षे किजल्के स्यात्केसरं तु हिंगुनि ।५३७।। केदारः क्षेत्रभिद्यालवाले शंकरशैलयोः । केनारः कुंभिनरके शिरस्कपालसंधिषु ॥५३८॥ केटिरुः शक्रगोपे स्यान्नकुले पाकशासने । कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ॥५३९॥
घरः किनकस्कंधकेशयोः पुंल्कीबः । नागकेसरे पुंनागे बकुलद मे च यथाप्रसौ मरुच्चुबितचारुकेसरः ॥५३६।। तुरगस्कंधकेशेषु यथा-वल्गुवलगत्यसावश्वः पाण्डुकेसरवालधिः । सिंहस्कधकेशेषु यथा-सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च । तुरंगसिंहयोरित्युपलक्षणमेतत् । तेन अन्येषामपि स्कंधकेशे केसरशब्दो वर्तते यथा-उन्मृष्टं करभस्य केसरसटाभाराग्रलानं रजः । किञ्जके यथा-दधानमम्भोरुहकेसरातीर्जटाः ॥ केसरं तु हिंगुनि । यथा-कृसराकेसरामोद प्रीणितघ्राणगहरा ॥५३७॥ केदारः क्षेत्रभिद्यालवाले शंकरशैलयोः ॥ कदिः सौत्रः । कयते केदारः द्वारशङ्गारेति साधुः । क्षेत्रभिदि पुक्लीबः । तत्र यथा-न मिताः फलभारेण न मिता शालिमंजरी । केदारेषु हि पश्यन्तः केदारेषु विनिस्पृहाः । आलवाले यथा-वासितमुपवनमेतत् मरुवककेदारमेदुरामोदैः । शंकरे यथा-वर्म केदारदेवस्य सुस्थं चक्रे महाभुजः । शैले यथा-पिबंति पारदं मुक्त्यै गत्वा केदारपर्वतम् ॥ केनारः कुंभिनरके शिरस्कपालसंधिषु ॥ कनति केनारः । द्वारशङ्गारेति साधुः । चतुर्वर्थेषु । कुंभिनरको नरकभेदः ॥५३८॥ केटिरुः शक्रगोपे स्यात् नकुले पाकशासने । केटति केटिरुः । शिगेरुनमेदिय इति साधुः । पुंसि त्रिवर्थेषु । शक्रगोप इंद्रगोपः ॥ कोहारो नागरे कूपे पुष्करिण्याश्च पाटके ।। कोमियति कोटार । कर्मणोऽण् । नागरो नगररक्षिता । पुष्करिण्या'