________________
तृतीयः काण्डः
(२२७)
कुहरं गहरे छिद्रे कुक्कुरं ग्रंथिपर्णके । कुक्कुरः श्वा कुबेरस्तु धनदे नंदिपादपे ॥५३२॥ कुर्परो जानुकफणी कुमारोऽश्वानुचारके ।
युवराजे शिशौ स्कंदे शुके वरुणपादपे ॥५३३॥ शवले दैत्ये । किरति किरिः । जंबोराभीरेति साधुः । शबळे गुणे पुंसि तद्वति वाध्यलिंगः । तत्र यथा- क्लप्तांगरागवनिता जलकेलिकमकिर्मोरनीरपरिपूरिततीरदेशाः । दैत्ये यथा- किम्मीरवीरवधदुर्धरबाहुदण्डः ।। किशोरो हयशावके । सूर्ये यूनि ॥ कृश्यति किशोरः । कोरचोरेति साधुः । हयशावके यथा- नवजातकिशोराणामेकवासरजन्मनाम् । यूनि तरुणे यथा - मध्यं मृगीदृशः सिंहकिशोरोदरसोदरम् ।। अथ किंशारूर्भाग्यशूके शरेऽपि च ॥ किंचित् कुत्सितं शृणाति किंशारुः किमः श्रोणिदित्युः पुंसि । धान्यशूके यथा- चकासे शलिकिंशारुकपिशाशामुखा शरत् । शरे इषौ यथा- किंशारुनिकराकीर्णे बाहुशालिभिरन्विते ।।५३१।। कुहरं गहरे छिद्रे ॥ कुहयते कुहरम् मृधुंदीति किदरः । कुं हरति वा । गहरे यथा-अद्विद्रोणी कुटीरे कुहरिणि हरिणारातयो यापयति । छिद्रे यथा-कंठकुहरे विमूढः श्वसनो यावन्न निर्याति ॥ कुक्कुरं ग्रंथिपणके ॥ कूकयते कुक्कुरम् । श्वसुर कुकंदरेति साधुः । ग्रंथिपर्णकं गंधद्रव्यम् ॥ कुक्कुरः श्वा ॥ यथा- मूढस्य न स्थितिं याति मतिरंधेव कुक्कुरी | कुबेरस्तु धनदे नंदिपादपे ॥ कुत्सितं वेरमस्य कुबेरः । कौति वा कुकुगुपतीति केरः। धनदे यथा-कुबेरगुप्तां दिशमुष्णरश्मौ गंतुं प्रवृत्ते समयं विलंघ्य । नंदिनामापादपो नंदिपादपः ॥५३२॥ कुर्परो जानुकफणी ॥ क्रुरति कुर्परः जठरक्र करेति साधुः द्वयोर्यथा- उल्ललन् पतितोदपी कुपरेषूद्गतवणः ॥ कुमारोऽश्वानुचारके । युवराजे शिशौ स्कंदे शुके वरुणपादपे ॥ काम्यते कुमारः । कमेरत उच्चेत्यारः । कुत्सितो मारोऽस्य कुमारयति वा कुमारः। अश्वानुचारके यथा- सोऽन्वीयमानो बहुभिः कुमारैः । युवराजे यथा- अथ प्रभावोपनतैः कुमारं कल्पद्मोत्थैरवकीर्य पुष्पैः । शिशौ