________________
(२२६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
वणजातौ कंदभेदे कणेरुस्तु गोरुवत् । वेश्येभीकर्णिकारेषु कटपू रक्षदेवने ॥५२८॥ विद्याधरेऽस्रपे रुद्रे कांतारं दुर्गवम॑नि । महारण्योपसर्गाद्योः कानने विशेषयोः । ५२९।। काश्मीरं पुष्करमूले टंककुङ्कुमयोरपि । कावेरी तु हरिद्रायां विश्वायां सरिदंतरे ॥५३०॥ किर्मीरः शबले दैत्ये किशोरो डयशावके ।
सूर्ये यून्यथकिंशारुर्धान्यशूके शरेऽपि च ॥५३१॥ कंधरा । शिरोऽधिग्रावा । तत्र यथा- न चक्रमस्याक्रमसाधिकंधरम् ॥ कशेरु पृष्टकीकसे तृणनातौ कंदभेदे ॥ के शेते कशेरु । शिग्रुगेरुनामर्वादय इति साधुः । क्लीबे । वैजयंती तु पृष्टस्यास्थिकशेर्वता इति नियामप्याह । पृष्टकोकसे यथा-सदंडनिष्पिष्ट कशेरुखंडः ॥५२७॥ कणेरुस्तु गणेरुवत् । वेश्येभी कर्णिकारेषु ॥ कणति गणयति च कणेरुः । गणेरुः । शिग्रगेहनमेर्वादय इति साधू । कर्णिकारे पुंसि । शेषयोः स्त्रियाम् । वेश्या गणिका । इभी हस्तिनी ॥ कट] रक्षदे वने । विद्याधरेऽस्रपे रुद्रे ।। कटेन प्रवते कटप्रः । दिदददिति साधुः । चतुष्वर्थेषु पुंसि । अक्षैः पाशकैर्देवनमक्षदेवनम् । अनपो राक्षसः ॥५२८॥ कांतारं दुर्गवम॑नि । महारण्योपसर्गाधोः काननेक्षुविशेषयोः ॥ काम्यते कांता द्वारशंगारेति साधुः । कांतमियति वा । दुर्गवर्त्मनि महारण्ये कानने च पुंक्टीवः । त्रिष्वपि यथा-क्रयादद्विपसर्पभाजिशवरी कांतारदुर्गे गिरौ । उपसर्गो विघ्नं आदि शब्दाद् दुर्भिक्षादिपरिग्रहः । इक्षौ पुंसि इत्येके ।।५२९॥ काश्मोरं पुष्करमूले टंककुंकुमयोरपि ।। कश्मीरेषु भवं काश्मीरम् । कोपांत्याच्चाणित्यण । पुष्करमूलटंकी औषधभेदौ । कुंकुमे यथा-काश्मीरच्छुरताच्छांड मलका मंदोदरी नंदतु ॥ कावेरी तु हरिद्रायाम वेश्यायां सरिदन्तरे । काव्यते कावेरी । शतेरादय इति साधुः । सरिदंतरे यथा- कावेरीतटबंधवः सरभसं लानास्तमालद्रुमाः ॥५३०॥ किमीरः
१ मु० करं शटितालयोः कठोरौ पूर्णकठिनौ कान्तारं० ।