________________
तृतीयः काण्डः
(२२५)
कलत्रं तु श्रोणौ भार्यायां दुर्गस्थाने च भूभुजाम् । कटित्रं तु कटीवस्त्रे रसनाचर्मभेदयोः ॥ ५२५ ।। कच्छुरः पुंश्चले पामासहिते कच्छुरा शढी । दुःस्पर्शा शूफशिंबी च कवरं लवणाम्लयोः ॥ ५२६ ॥ कबरी केशविन्यासशाकयोः कंधरोऽम्बुदे । कंधरा तु शिरोधौ स्यात् कशेरुः पृष्टकीकसे ॥५२७॥ तद्वति वाच्यलिंगः । करीरः कलशे वंशाकुरपक्षविशेषयोः ॥ कीर्यते करीरः । कृशगइतोरः पुंक्लबः कलशे यथा-करी जडसंगेऽपि तापहारी शरोरिणाम् । वंशांकुरे यथा-रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः । वृक्षविशेष यथा-जानन्त्युप कर्तुममी मार्गकरीराः शरीरेण ॥ ५२४ ॥ कलत्रं श्रोणौ भार्यायां दुर्गस्थाने च भूभुजाम् ॥ कडति कडत्रम् । वृग्नक्षीत्यत्रः । लत्वे कलत्रम् । कलं त्रायते वा । श्रोणो भार्यायाञ्च यथासाधोरिवोरुयुगलस्य कलत्रसंगस्तस्याः स्वतंत्रगतिभंगकरोऽद्य जातः । दुर्गस्थाने यथा-निर्विक्रमो महोनाथः कलत्रैस्त्रायते कियत् ।। कटित्रं तु कटोवस्त्रे रसनाचर्मभेदयोः ॥ कटिं त्रायते कटित्रम् । कति आवृणोति वा । बंधिवहीतोत्रः त्रिष्वपि यथा-रेजे कटित्रेण कुटो कटो च ॥५२५|| कच्छुरः पुंश्चले पामासहिते । कच्छुरस्त्यस्य कच्छुरः । कच्छवा डुरः वाच्यलिंगः । पुंश्चलः कामकंडूलः । द्वयोयथा-5च्छुरे वच्छलाः स्त्रियः । कच्छुरा शढी (शटो) । दुःस्पर्शा शूफर्शिवी च ॥ तिस्रोऽप्योषधयः ।। कवरं लवणाम्लयोः ॥ क्वयते कवरम् । ऋछिचटोत्यरः। धर्ममात्रे कलीबे तद्वति वाच्यलिंगः । द्वयोर्यथावर्वराः सवप्रियाः । कर्बुरेऽपि मंखः ॥५२६ । कबरो केशविन्यासशाकयोः॥ केशविन्यासे भाजगोणेति डोः । शाके तु -कबरोव कबरी । केशविन्यासे यथा-व्याकीर्णमाल्यकबरां कवरी तरुण्यः । शाकं शाकविशेषः ॥ कंधरोऽ म्बुदे ॥ अलं धरति कंधरः । आयुधादिभ्य इत्यच् यथा-जलदुर्धरधारामिर्धरां प्रीणाति कंधरः ॥ कंधरा तु शिरोधौ स्यात् ॥ कं शिरो धरति