________________
(२२४)
अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
विवरे च गुहायाश्च कर्करो मकुरे दृढे । कदरः श्वतखदिरे क्रकचक्षुद्ररोगयोः ॥५२२॥ कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः । कंकरं कुत्सिते तक्रे कडारो दासपिंगयोः ॥५२३॥ कंजारः कुञ्जरे सूर्ये जरठे द्रुहिणे मुनौ ।
करीरः कलशे वंशांकुरवृक्षविशेषयोः ॥ ५२४ ॥ जगति । कर्बुरो राक्षसे पापे शबले । पापशबलयोधर्ममात्रे पुंसि तद्वति वाच्यलिंगः । राक्षसे पापे च यथा-कर्बुरम कबुरात्मा । शबले कल्मषे यथा-भास्वकौस्तुभकांति कर्बुरपरिभ्राजिष्णुवक्षःस्थल ॥ कंदरोंऽकुशे ॥ विवरे च गुहायाश्च ।। कं शिरो दृणाति कंदरः। कंदते वा । ऋछि चटीत्यरः । गुहायां त्रिलिंग । अंकुशे यथा- कंदगईतिनां दरः॥५२१॥ विवरे यथाविद्रथः प्रतिभयमास्यकंदरं ललत्फणाधरमिव कोटरं तरु । गुहायां यथागायंति किन्नरगणा गिरिकंदरेषु ॥ कर्करो मकुरे दृढे ॥ किरति कर्करः। ऋतष्टिदित्यप्रत्यय । सरुपद्वित्वश्च । मकुर कोरकः । दृढो बलीयान् तत्र वाच्यलिंग । क्षुद्र पलेऽपि यथा- प्रहितकर्करमाकुरवर्करम् गलंति कायां कर्करीत्यपि ॥ कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ।। कदिः सौत्रः कदति कदर । ऋछि चटीत्यरः । कुत्सितमियर्ति वा कं दृणाति वा ॥ ५२२ ॥ कर्पस्तु कटाहे स्याच्छस्त्रभेदकपालयोः॥ कल्पते कर्परः । जठरक्रकरेति साधुः । कटाहे यथा-सावष्टंभनिशुंभनिर्भरनमद्भूगोलनिष्पीडनन्यंचकपर कूर्मकंपविकलब्रह्मांडमांडस्थिति । शस्त्रभेदे यथा-स कर्परा कृत्तदशेन वाससा । कपाले यथा-तस्मै वहे यमुदकं घटकर्परेण ॥ कंकरं (कच्चरं) कुत्सिते तके | कंकते कंकरम् । जठरेति निपादनादरः । के सुखं करोति वा हेत्वा दौहः । कुत्सिते वाच्यलिंग । तक्र मथितम् ॥ कडारो दासपिंगयोः ।। कति कडार । अग्यंगोत्यारः । पिंगे गुणे पुंसि तद्वति वाच्यलिंगः । तत्र यथा-पृथ्वीरजः करमकंठकडारमाशा ॥५२३॥ कंजार कुंजरे सूर्ये जरठे दुहिणे मुनौ कजिः सौत्रः । कंजति कंजारः अग्यंगीत्यारः । पञ्चस्वर्थेषु मरठे गुणे पुंसि