________________
(२२२)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुंदरणयोरुत्तरं प्रवरोर्वयोः ॥५१७।। उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे ।
उद्धारः स्यादृणोद्वृत्योरुदारो दक्षिणो महान् ॥५१८।। स्यादित्वर्यभिसारिका । चत्वरेवित्वर। याति वेगविह्वलकुंतला ॥५१६।। ईश्वरः स्वामिनि शिवे मन्मथेऽपि ॥ ईशनशील ईश्वरः। स्थेशभासपिसकसो वरः । आदयेऽपि तत्र स्वामिनि च वाच्यलिंगः । स्वामिनि शिवे आदये च यथाप्रालेयशीतमचलेश्वरमीश्वरोऽपि सांद्रेभचर्मवसनाभरणोऽधिशेते । मन्मथः कामः ॥ ईश्वरा अद्रिजा । अद्रिजा गौरी तत्र यथा- विघ्नच्छिदे चरणपंकजमीश्वरायाः ॥ उदरं तुंदरणयोः । उनत्ति उदरम् । मृबूंदीति किदरः । तुंदे यथा- रक्ताशोककृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनम् । रणे संग्रामे यथाकस्य स्यान्नोदरे दरः ।। उत्तरं प्रवरोर्ध्वयोः ॥ उदीच्य प्रतिवचसोः ॥ अतिशयेन उत्कृष्टं ऊर्ध्वम् । धा उत् उत्तरम् । द्वयोर्विभज्ये वतरप् । उत्तरति वा । प्रवरोोंदीच्येषु वायलिगः । प्रवरे यथा- लोकोत्तरं चरितमर्पयति प्रतिष्ठाम् । ऊर्व यथा- पुनर्विविक्षुः स्फुरितोत्तराधरः ॥५१७। उदीच्ये यथा- पितुरनंतरमुत्तरकोसलान् । प्रतिवचसि यथा- वोक्षितेन परिगृह्य पार्वती. मुद्धकंपमयमुत्तरं ददौ ।। उत्तरस्तु विराटजे ।। विराट नो विराटराजसूनुः । तत्र यथा- वैराटे उत्तरस्यैव तवैतत् कथनं वृथा ।। दिक्नक्षत्रयोरपि ।। तत्र तु स्त्रीलिंगः । दिशि यथा- अस्त्युत्तरा दिशि देवतात्मा । नक्षत्रे यथाहस्ताद्याः पञ्चवस्त्रेषु प्रशस्तं चोत्तरात्रयम् ॥ उद्धारः स्यादृणोद्धृत्योः॥ उद्धियते उद्धारः । ऋणे यथा-लावण्यमुद्धारतया गृहीत्वा मन्ये विधात्रा विहिता मृगाक्षी । उद्धृत्तो यथा-कैलासोद्धारधोरं दशवदनभुजामंडलीयंत्रबंधम् रेरेकोदंडदंडप्रतिपरुरदलन्नासि सोढा दृढोसि । संग्रह कोच्छिष्ट योरपि मंखः संग्रहे यथा- सूकोदारं करिष्यामि । भुक्तोच्छिष्टे यथा-यत्रोद्धारी भवति शतशः कोऽपि कर्पूरपूरः ।। उदारो दक्षिणो महान् दाता ॥ उदर्यते उदारः
१ मु० उत्तरा दिगुदीच्यां स्यात्स्नुपायामर्जुनस्य च । उद्धारः ।