________________
तृतीयः काण्डः
(२२१)
आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेऽधिकरणेऽप्याकरो निकरे खनौ ।।५१५।। इतरः पामरेऽन्यस्मिन्नित्वरः करकर्मणि । पथिके दुर्विधे नीचे स्यादित्वयभिसारिका ॥५१६।।
आहार । हारे भशने च यथा- चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् । आहरणे आनयने यथा-वंठोऽयं निष्ठुराकारः काष्ठाहारेण जीवति । आसारो वेगवद्वर्षे सुहृद्बलप्रसारयोः । आसरणं आसरंत्यनेन वा भासारः । वेगवद्वर्षे यथा- त्वामासारप्रशमितवनोपप्लवं साधु मूर्ना । सुहृदले यथानिरुद्धवावधासारप्रसारांगा इव व्रजम् । प्रसारस्तृणकाष्ठादिहेतवे प्रसरणम् ॥५१४॥ आकार इंगिताकृत्योः ॥ आक्रियते आकारः । इंगितं भावसूचकं चेष्टितम् । तत्र यथा- न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः । आकृतिः वैवादिः । तत्र यथा- गूढाकारेंगितस्य च ॥ आधारो जलधारणे ॥ आलवालेऽधिकरणेऽपि ।। आध्रियतेऽस्मिन्नित्याधारः । न्यायावायेति घञ् । जलधारणे अंभसां बंधे यथा- समुद्रः प्रलयोन्मुद्रः किमाधारेण धार्यते । आलवाले यथा- आधारबंधप्रमुखः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । अधिकरणे यथा- किमाघारो धाता सृजति किमुपादान इति च ॥ आकरो निकरे खनौ । आकोर्यतेऽस्मिन्निति एत्य कुर्वत्यत्र वा आकरः । पुनाम्नि घः । निकरे यथा- आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे । खनौ यथा- दिलोपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभो ॥५१५॥ इतरः पामरेऽन्यस्मिन् । एति इतरः इण पूभ्यां किदिति कित् तरः वाच्यलिंगः । पामरे यथा-नास्यां कामो महतामितरानभिलषति सापि न प्रसभम् । अन्यस्मिन् यथा- शुभेतराचारविपक्रिमापदो विपादनीया हि सतामसाधवः । इत्वरः क्रूरकर्मणि ।। पथिके दुर्विधे नीचे ॥ अयनशील इत्वरः । सृजीण न शब्दरप् । वाच्यलिंगः । चतुर्वपि यथा- किमित्त्वरैः सत्वरगत्त्वरैस्तैः ॥