________________
(२२०)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अजिरं दरे काये विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽग्नौ अंगारोऽलातभौमयोः ॥५१२।। अंडीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगुरौ लघौ ॥५१३।। शिंशपायामथाहारो हार आहरणेऽशने ।
आसारो वेगवद्वर्षे सुहृद्दलप्रसारयोः ॥५१४॥ पुमान् इत्याह । अंकुरो रोम्नि सलिले रुधिरेऽभिनवोद्गमे ॥ अंकयते अंकुरः । वास्यत्यसीत्युरः । अभिनवोद्गमः प्ररोहस्तत्र यथा – बीजाङ्कुरः प्रागुदयादिवांभः ॥५११॥ अजिरं ददुरे काये विषये प्रांगणेऽनिले । अजंत्यस्मिन् अजिरम् । स्थविरेति साधुः । दर्दुरो भेकः । काये प्रांगणे च यथा-अजिरमजिरं पापानां तत् कथं बत रज्यसे । विषये रूपादौ यथाभजिराण्यनराणि यः पुमान् तनुते तस्य भवेन्न मुक्तता । अनिलो वातः ॥ अशिरोऽर्के राक्षसेऽग्नौ ॥ अश्रुते अश्नाति वा अशिरः । स्थविरेति साधुः । श्वाशिर इत्यन्ये । त्रिष्वपि यथा - अशिरः शिरस्तापकः ।। अंगारोऽळातभौमयोः ॥ अंगत्यंगारः । अंग्यंगीत्यारः । अलाते पुंक्लोवः तत्र यथा-अंगारचुंबितमिव व्यथमानमास्ते । भौमे यथा-अंगारेणाश्विनी श्रेष्ठा ॥५१२॥ अंडीरः शक्तनरयोः ॥ अंडे मस्त्यस्य कांडांडभांडादीर इति श्लिष्टनिर्देशादीरः । शक्ते वाच्यलिंगः। तत्र तथा-चिरादंडीरेण त्वयि तदपि रामेण गुणितम् ॥ असुरः सूर्यदैत्ययोः ॥ न सुरति असुरः भस्यति वा । वास्यसीत्युरः । दैत्ये यथा- समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् ॥ असुरा रजनीवास्योः ॥ रजनी रात्रिः वासी तक्षोपकरणम् ॥ अगुरुस्त्वगुरौ लघौ शिशपायाम् ॥ न गुरुरगुरुः । अगुरौ शिंशपायाश्च पुंक्लोबः लघौ वायलिंगः । अगुरौ लघौ च यथा-अगुरुरिति वदतु लोको गौरवमात्रैव पुनरहं मन्ये ॥५१३॥ शिंशपा वृक्षः ॥ अथाहारो हार आहरणेऽशने ॥ आहरणमाहियते का
१. मु. अवीरा तु नारी पतिसुतोज्झिता । रजसा संयुताप्युक्ताहार० । .