________________
तृतीयः काण्ड
__(२१९)
चरमेऽवरा तु गौरीगनजंघांत्यदेशयोः ।। अक्षरं स्यादपवगै परमब्रह्मवर्णयोः ॥५०९॥ गगने धर्मतपसोरध्वरे मूलकारणे । अधरोऽनूर्ध्वहोनोष्ठेष्वंबरं' व्योमवस्त्रयोः ॥५१०॥ कर्पासे सुरभिद्रव्येऽररं छदकपाटयोः ।
अंकुरो रोम्नि सलिले रुधिरेऽभिनवोद्गमे ॥५११॥ प्राप्याऽधोमुखतां गतः ॥५०८।। अवरा तु गौरी गजजंघांत्यदेशयोः ॥ गौरी उमा । गजजंघायाः अंत्यदेशः पश्चाद् भागः तत्र यथा-मग्नोऽवराभ्यामवीवभूव । गनजंबांत्यदेशे कठोबे इति लिंगविनः ॥ अक्षरं स्यादपवर्ग परमब्रह्मवर्णयोः ॥ गगने धर्मतपसोरध्वरे मूलकारणे ॥ न क्षरति अक्षरम् । अश्नुते वा । मीज्यजोति सरः । अपवर्गे मोक्षे यथा-स याति परमो योगी प्रियं धामाक्षरं परम् । परमब्रह्मणि यथा-यमझरं वेदविदो विदुस्तमात्मानमात्मन्यवलोकयंतम् । वर्णे यथा-तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥५०९॥ गगनं व्योम, धर्मः पुण्यं, तप उपवासादिः, अधरो यागः, मूलकारणं परमाण्वादिः, अक्षयेऽपि मंखः यथा-तमक्षरं ब्रह्मपरं पवित्रम् । अधरोऽनवों हीनोष्ठेषु ॥ अव्यते अधरः । अवेर्ध च वेत्यरः । अनूधे हीने च वाच्यलिंगः । अनू: अधस्तनः तत्र यथा-अधरोत्तरतां प्रपन्नयोः प्रिययोः पार्श्वनिवेशिनोस्तथा । होने यथा- प्रधो धगं न पश्यति संपल्लेशाकुलो मूर्खः ।
ओष्ठे यथा-निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ॥ अम्बरं व्योमवस्त्रयोः ।। कर्पासे सुरभिद्रव्ये ॥ अमति अबरम् । जठरक करेति साधुः । व्योम्नि वस्त्रे च यथा-येनेवांबरखेडेन संवीतो निशि चंद्रमाः ॥५१०॥ सुरभिद्रव्यम् तायिकप्रसिद्धम् तत्र यथा-सुरभितांबरमंबरधूपतः ॥ अपरं च्छदकपाटयोः । इयर्ति अररम् । ऋछि चटीत्यरः । छद्ः पत्रम् कपाटे यथा-अररपुटचीत्कारविरुतैः । वैजयंतीकारस्तु न ना कपाटेकोलोहे सोम्ये स्यादरर:
१ मु• अप्वरः सावधानके वसुभेदे ऋतौ चाप्यम्बरं ।