________________
(२१८) अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
स्नुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावतो। स्थूणा दुर्वा गुडूची चान्तरं रन्ध्रावकाशयोः ॥५०७॥ मध्ये विनार्थे तादर्थे विशेषेऽवसरेऽवधौ । आत्मीयाऽऽत्मपरीधानांतद्धिबाह्येष्वथावरम् ॥५०८॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शगैः ।।५०६॥ स्नुहीवृक्षो वज्र. तरुः। अस्थिसंहारो गंगादिक्षेप्याणामस्थ्नामेकत्रमीलनम् ॥ अमर त्वमरावती । स्थूणा दुर्वा गुडूची च॥ अमरावत्यां था-अमरायां सुरो भावी समरे संमुखो हतः । स्थूणा स्तंभः । दूर्वा गुडूचो च ओषधिः ॥ अन्तरं रन्ध्रावकाशयोः॥ मध्ये विनार्थे तादयें विशेषेऽवसरेऽवधौ ।। आत्मीयात्मपरीधानांतद्धिबायेषु ॥ अनिति अतरम् । अनिकाभ्यां तरः त्रयोदशस्वर्थेषु । पुंक्लोबः । रंधे यथा-चलत्पलाशांतरगोचरोस्तरोस्तुषारमूर्तेरिव नक्तमंशवः । अवकाशे यथामध्ये यथा- श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥५०७॥ मध्ये यथा-तदंतरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या । विनार्थे यथाधर्मातरेण विभवः कृतिनां कुतस्त्यः । तादयें यथा-अर्थेस्तैर्विषयांतरैः किमिव नः कृत्यं सुधासंभवैः । विशेषे यथा-इक्षुक्षीरगुडादीनां माधुर्यस्यांतरं महत् । अवसरे यथा-इदमंतरमुपकृतये प्रकृतिवलायावदस्ति संपदियम् । 'धो समाप्तौ यथा-गीतांतरे च श्रमवारिलेशैः किश्चित्समुन्छ्वासितगंडलेवम् । आत्मोये यथा -ये भक्तिं परिशीलयन्ति विबुधास्तेऽभ्यंतरास्ते विभोः । आत्म ने अत्मोपलक्षिते मनः प्रभृतौ यथा-व्यतिषजति पदार्थानंतरः कोऽपि हेतुः । परीधाने यथा-तूणावेव पुनस्तरां द्रढयति स्वादतरस्मात्पटादाकृष्टैः कुशवीसन्तुभिरभिकुद्रो मुनिर्भार्गवः । अंतर्धा व्यवधाने यथा-दधतमंतरिता हिमदोधितम् । बाह्ये यथा-अंतरेषु न देशेषु विचरेत् दुर्गतोऽपि सन् ।। अथावरम् ॥ चरमे ॥ अव्यते अवरम् । अवेर्ध च वेत्परः । वाध्यलिंगः । चरमं निधम् दिश्यपि मंस्वः तत्र तु स्त्रियाम् । तयोर्यथा-दिननाथोऽवरासंगं