________________
तृतीयः काण्डः
(२१७)
सौगन्ध्ये चारुतायाश्च हिरण्यं पुनरक्षये। प्रधानधातौ कनके मानभेदे कपर्दके ॥५०५॥ द्रविणाकुप्ययोश्चापि इच्छायो मन्मथात्मनोः । हृदयं वक्षसि स्वान्ते वृक्कायाममरः सुरे ॥५०६॥
समवायानुसैन्ययोः ॥ संनीयते सन्नयः । युवर्णे त्यल । समवाये द्रव्यमीलने यथा-आसोमयागात् कार्यः स्यात् सन्नयो नाहिताग्निना। अनुसैन्यं पश्चादवस्थायिबलम् तत्र यथा-सन्नयो हि न धातव्यो नयज्ञेन महीभुजा ।। सामर्थ्य योग्यताशक्त्योः ॥ समर्थस्य भावः सामर्थ्यम् । द्वयोर्यथा-सामर्थ्य भवतः पुरंदरमतोच्छेदं विधातुं कुतः ॥ सौरभ्यं गुणगौरवे ॥ सौगन्ध्ये चारुतायां च ॥ सुरमेर्भावः सौरभ्यम् । गुणगौरवचारुतयोर्यथा-सौरभ्यं लभ्यते पुण्यैः । सौगन्ध्ये यथा-गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरो, परोतव्योमानः प्रकृतिगुरवः केऽपि तरवः ।। हिरण्यं पुनरक्षये ॥ प्रधानधातौ कनके मानभेदे कपर्दके ॥ द्रविणाकुप्ययोश्चापि ।। ह्रियते हिरण्यम् । हिरण्यपर्जन्यादय इति साधुः। सप्तस्वर्थेषु । कनके पुंकलीवः । अक्षयमविनश्वरम् । प्रधानधातुः शुक्रम् । कनके यथा-हिरण्मयी सा ललनेव जंगमा । अत्र हि हिरण्यस्य विकारो हिरण्मयी । अत्याच्छादने इति म यद सारवैश्वाकेति साधुः। मानभेदे यथा-हिरण्यमेकं गामेकां भूमेरप्येकमंगुलम् । हरन्नरकमाप्नोति ।। अकुप्यमुत्कृष्टधनं रूप्यहेमादि, कपर्दके द्रविणे अकूप्ये च यथा-हिरण्यमेवार्जय निष्फला : कलाः ॥५०५॥ हृच्छायो मन्मथाऽऽत्मनोः ॥ हृदि शेते हृच्छयः । आधारादित्यः । द्वयोर्यथा-हृच्छयः कथमनात्मतां गतः ॥ हृदयं वक्षसि स्वांते वृक्कायां (बुक्कायाम् ) ॥ हियते हरति वा हृदयम् गयहृदयादय इति साधुः । वक्षसि स्वांते च यथा-राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । वृक्काऽप्रमांसम् ॥ अथ रांताः ॥ अमरः सुरे ॥ स्नुहीवृक्षेऽस्थिसंहारेऽपि ॥ न म्रियते अमरः अमति वा । अछि चदित्यरः । पुरे यथा