________________
(२१६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
सिंधूत्थे तालपाश्च शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः ॥५०२॥ सिद्धांताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥५०३॥ संनिवेशे सन्नयस्तु समवायानुसैन्ययोः ।
सामर्थ्य योग्यताशक्त्योः सौरभ्यं' गुणगौरवे ॥५०४॥ पयों न शीर्षण्यम् ' शीर्षण्ये त्वयि पुण्यपण्यविभवर्लभ्ये भयं मे कुतः ॥ शलेयं शैलसंभवे ॥ सिंधुत्थे तालपर्याश्च ॥ शैले भवं शैलेयम् । नद्यादो रयण् । शिलायास्तुल्यं वा शिलाया एयच्चेति एयञ् । शिलासंभवे यथा-शैलेयनद्वेषु शिलातलेषु ।५०१॥ सिंधूत्थं लवणम् । तालपर्णी ओषधिः ॥ शैलेयस्तु मधुव्रते ।। मधुव्रतो भ्रमरः स्त्रीपुंसः ॥ समयः शपथे भाषासंपदोः कालसंविदोः॥ सिद्धांताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे। समीयते समेति वा समयः । द्वादशस्वथैषु । काले पुंक्लीवः । शपथे यथा-तनयसमयं सायं कृत्वा ययौ मम वल्लभा । भाषायां यथा-निःशेषदेशसमयस्य नृपः स विज्ञः। संपदि यथा-उपकारो हि कर्तव्यः कृतिभिः समये सति ॥ ५०२ ॥ काले आचारे च यथा-स्पृशन् सशंकः समये शुचावपि स्थितः करागैर समग्रपातिभिः। संवित् ज्ञानं तत्र यथा-समयेन मया ज्ञातं परं ब्रह्म क्षणादपि । सिद्धांते यथा-न पक्षपाती समयस्तथाते । संकेते यथा-सायं तत्र त्वया गम्यं मयेति समयः कृतः। नियमे यथा-वक्तव्यं सत्यमेवेति गृहीतः समयो मया। अवसरे यथा-यावत् स एव समयः सममेव तावदव्याकुलाः पटमयान् यमितो वितन्य । क्रियाकारो व्यवस्थापनम् तत्र यथा- समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः । निर्देश आज्ञा तत्र यथा-दीयतां शासनं तस्मै समयोऽयं महीपते ।। संस्त्यायो विस्तृतौ गृहे । संनिवेशे।। संस्त्यानं संस्त्यायतेऽसौ वा संस्त्यायः । विस्तृतौ संघाते यथा-संस्त्यायेन चरं ति हंत हरिणा व्यस्ताभिशंकास्ततः । गृहे संनिवेशे च यथा-संस्त्याये निवसन्नुपेतमतिथि कालेऽवजानाति कः ॥५०३॥ सन्नयस्तु
१. मु. सोकर्य तु विना श्रमे । सूकरस्प क्रियायां च सौरभ्यम् ।