________________
(२१४) . अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
पार्थे विमाने विजयोमातत्सख्योस्तिथावपि । विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः ॥ ४९७ ॥ शब्दादौ जनपदे च विस्मयोऽदभुतदर्पयोः ।
विनयः शिक्षाप्रणत्योविनया तु वलौषधौ ॥४९८॥ समूहेऽपि यथा-अलिवलयसदृक्षैः कुंतलैः पदमलाक्ष्याः ॥ वालेयस्तु गर्दभे । चल्यर्थे कोमळेङ्गारे वल्लाम् ॥ वलते वालेयः । गयहृदयादयेति साधुः । चलयेऽयं वा छदिलेिरेयण् । वल्यर्थे कोमले च वाच्यलिंगः। गर्दभे यथा-वहत्येव हि कालेयं वालेयो न तु भोगभाक् । वल्यर्थे यथा-बालेयतंडुलविलोपकदार्थताभिरेताभिरग्निशरणेषु सधर्मिणीभिः । कोमलं मृदु । अंगारवल्लर। भांगीनाम ओषधोः ॥ विजयो जये ॥ पार्थे विमाने ॥ विजयनं विजयते वा विनयः । जये यथा- विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । गतावपि मंखः ॥४९६।। तत्र पार्थेऽर्जुने च यथा-विजयो विजयोद्यतो यदा । विमाने यथा-विजयो वैजयंतश्च जयंतश्चापराजितः ॥ विजयोमातत्सख्योस्तिथावपि ॥ उमायां यथा-देवि स्तुवंति विजयेति जयेति उमेति । तत्सख्याम् यथा-कथयतु विजयानप्रमाणं यदीन्दुः । तिथौ तिथिविशेषे यथा-मंगलेन विजया जयावहा ॥ विषयो यस्य यो ज्ञातः तत्र गोचरदेशयोः ॥ शब्दादौ जनादे च ॥ विसिनोति विषयः । सदसि तस्येति षत्त्वम् । शब्दादयः शब्दरूपरसगंवस्पर्शाः तत्र यथा-स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः । गोचरे यथा-सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे। तयोर्यथा-रागीव सक्किमधिकां विषयेषु वायुः ॥४९७।। जनैस्यिमानो जनपदः । तत्र यथा-उत्सन्नविषयग्रामात्स्थानादुच्चलितद्विजाः ॥ विस्मयोऽद्धतदर्पयोः ॥ विस्मयनं विस्मयः । विशिष्टः स्मय इति वा । अद्भुते यथा-यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमंदममृतप्लवदनादिवाभूत् । दर्षे यथा-त्यागे तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो हि न कर्तव्यो बहुरत्ना वसुंधरा ॥ विनयः शिक्षाप्रणत्योः । विनयनं बिनयः शिक्षायां यथा-विनया