________________
सृतोयः काण्डः
(२९३) लौहित्योऽब्धौ नदे वोही ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥ ४९४ ॥ वदान्यः प्रियवाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवन्द्य वचोऽहेहीनयोरपि ॥ ४९५ ॥ वलयः कंकणं कंठरुक् वालेयस्तु गर्दभे ।
वल्यथै कोमलेंगारे वल्लयां विजयो जये ॥ ४९६ ॥ मृगयुः । केवयु भुरण्णेति (उ० ७४६) साधुः । मृगान् याति वापी मृगेति किदुः पुंसि । फेरुः शृगालः । ब्रह्मा वेधाः । लुब्धके यथा-हंति नो पशयस्थोऽपि शयालमृगयुर्मुगम् । रहस्यं गोपनीये स्यात् ॥ रहसि भवं रहस्यम् । दिगादीति यः ॥ यथा-रहस्याख्यायोय स्वनसि मृदुकर्णान्तिकचरः । रहस्या सरिदंतरे ॥ सरिदंतरं नदीभेदः ॥४९३ ॥ लौहित्योऽब्धौ नदे त्रीहौ । लोहित एव लौहित्यः । भेषजादित्वाद्यण् । नदे यथा-चकंपे तीर्णलोहित्ये तस्मिन् प्राग् ज्योतिषेश्वरः ।। ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे । ब्रह्मणे हितो ब्रह्मण्यः । प्राण्यंगरथस्वलेति यः । ब्रह्मणि साधुर्वा ब्रह्महिते वाच्यलिंग: तत्र यथा-ब्रह्मण्योऽपि ब्रह्मवित्तापहारी। शनैश्चरो रविसुतः ॥ व्यवायस्तु मैथुनव्यवधानयोः ॥ व्यवायनं व्यवायः । मैथुने यथा-अतिव्यवायादिव राजयक्ष्मा । व्यवधाने तिरस्करणे यथा-दुःखव्यवायकुशलस्य विशालबुद्धेः ॥४९॥ वदान्यः प्रियवाग्दानशीलयोरुभयोरपि ॥ वदति वदान्यः । वदिसहिन्यामान्यः । त्रिष्वपि वाच्यलिंगः तत्र यथा-गतो वदान्यांतरमित्ययं मे माभूत् परोवादनवावतारः । वक्तव्यो वाच्यवन्द्य वचोऽहेहीनयोरपि ।। उच्यते वक्तव्यः उच्यते वाच्यः वाच्यलिंगौ। त्रिष्वपि वक्तव्यशब्दो यथासवक्तव्यो न वक्तव्यः । वाच्यशब्दो गर्थे यथा-न यथा वाच्यतामेति । वचोहे यथा-तद्वाच्यः स दशाननो मम गिरा । हीने यथा-तुणं नाराचवाच्यं वहसि किमु मुधा ॥ ४९५॥ वलयः कंकणं कंठरुक् ॥ वलते वलयः । कृगुवलीत्ययः पुंक्लीबः। कंकणे यथा-कनकवलयभ्रंशरिक्तप्रकोष्ठः। कंठरुक् कंठरोगः ।।