________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
असंमते प्रसन्यस्तु प्रतिकूलानुकूलयोः । प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये च प्रळयो मृतैा ॥ ४८५ ॥ संहारे नष्टचेष्टत्वे पर्य्यायोऽवसरे क्रमे । निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदंबुदे ||४८६ ॥
(२१०)
विश्वासे यथा-तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत् सुरचितार्थपदैर्वचोभिः | शपथे यथा - प्रत्ययो वचनमेव साधुषु । हेतौ यथा - अपेक्षते प्रत्ययमुत्तमं त्वां बोजांकुरः प्रागुदयादिवाम्भः । आचारे यथा - साधुप्रत्यय एवायं कृते प्रतिकृतं हि यत् । प्रथितत्वे प्रथायां यथा- प्रायः प्रत्ययमाधत्ते स्वद्गुणेषूत्तमादरः । स्यादी यथा - सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥ प्रणाय्यः कामवर्जिते । असम्मते || प्रणीयते प्रणाय्यः प्रणाय्यो निष्कामा संमते इति ध्यणि साधुः वाच्यलिङ्गः । कामवर्जितो विषयेष्वनासक्तः । तत्र यथाज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्याय वांतेषासिने ||४८४|| असंमते चौरादिके यथा - अवाप्नुयात्सोप्यविचारनिग्रहं यदि प्रणाय्यैः सह संवसेन्नरः || प्रसन्यस्तु प्रतिकूलानुकूलयोः ॥ प्रतीपः सव्यात् प्रगतः सव्यं वा प्रसव्यः वाच्यलिंगः । प्रतिकूले यथा- प्रसन्यो भ्रातृव्यो व्यसनशतवांछा मलिनधीः । अनुकूले यथा - प्रसव्योग्निरिवाहुतिम् । वामेऽपि मंखः यथा - प्रसन्यमंनलि दद्यात् ॥ प्रतीक्ष्यः प्रतिपाल्ये स्यात् पूज्ये च ॥ प्रतीयते प्रतीक्ष्यः वाच्यलिंगः द्वयोर्यथा - प्रतक्ष्यं च प्रतीक्ष्यायै पितृश्वस्त्रे सुतस्य ते ॥ प्रलयो मृतौ ॥ संहारे नष्टचेष्टत्वे ॥ प्रलयनं प्रलयः । मृतौ यथा - महाजनविरोधेन कुंजरः प्रलयं गतः ॥ ४८५ ॥ संहारे यथा - प्रलयोल्ललितस्य वारिधैः परिवाहो जगतः करोति किम् । नष्टचेष्टत्वे सात्त्विकभावे यथा - भ्रमिमरतिमलसहृदयतां प्रलयं भूर्च्छां तमः शरीरसादम् । मूर्छायामपि यथा - अवधानपरे चकार सा प्रलयांतोन्मिषिते विलोचने । पर्यायोऽवसरे क्रमे । निर्माणद्रव्यधर्मे च ॥ पर्ययणं पर्यायः । परेः क्रमे इति घञ् पर्येति वा तन् व्यधाति णः । अवसरे यथा - पर्याये विहितं कार्य सिध्यत्येव न संशयः । क्रमे यथा - पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः
1
1