________________
तृतीयः काण्डः
वासवे मेघशब्दे च पयस्यं तु पयोभवे ।
पयोहिते पयस्या तु काकोली दुग्धिकापि च ॥ ४८७ ॥ प्रक्रिया तुत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजळयोः पारुष्यंस्तु बृहस्पती ।। ४८८ ॥
पारुष्यं परुषभावे संक्रंदनवनेऽपि च । पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ ||४८९ ॥
(२११)
लाध्यतरो हि वृद्धेः । निर्माणं निर्मितिः । द्रव्यधर्मो नवपुराणादिः । तत्र यथागुणपर्य्यायवद् द्रव्यम् । पर्जन्यो गर्जदंबुदे || वासवे मेघशब्दे च ॥ गर्जति पर्जन्यः । हिरण्यपर्जन्यादय इति साधुः । गर्जदंबुदे यथा - स्फूर्जमा गर्ज पर्जन्य दर्पोऽयं यदि तेऽम्भसा ।। ४८६ ॥ वासवे यथा - अजन्यं सौजन्यं यदि भवति पर्जन्य भवतः । मेघशब्दो मेघध्वनिः ॥ पयस्यं तु पयोभवे ॥ पयोहिते । पयसि भवं पयस्यम् । दिगादित्वाद्यः । पयसे हितं वा । उवर्णयुगादेर्य इति यः । वाच्यलिंगः । पयस्या तु काकोली दुग्धिकापि च ॥ द्वे अपि ओषधी ॥ ४८७ || प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । प्रकरणं प्रक्रिया उत्पादने यथा - शब्दानां प्रक्रिया ज्ञेया । अधिकारो व्यवस्थापनम् । प्रकारे यथाऐश्वर्य प्रक्रिया मात्र कृतार्थाः संतु हेतयः । पानीयं पेयजलयोः ॥ पीयते पानीयम् पेये वाच्यलिंगः । द्वयोर्यथा - पानोयं पानीयं शरदि वसन्ते तु पानीयम् ॥ पारुष्यस्तु बृहस्पतौ ॥ परुष एव पारुष्यः । मेषादित्वाद्यण् ||४८८ || पारुष्यं परुषभावे संक्रंदनवनेऽपि च ॥ परुषस्य भावः पारुष्यम् । पृणाति वा । गयहृदयेति साधुः । परुषभावे यथा- पारुष्यं वचसा रुषापि कुरुषे यत्तन्नते पौरुषम् । संकंदनवनं इन्द्रवनम् । पौलस्त्यो रावणे श्रीदे || पुलस्तेरपत्यं पौलस्त्यः । गर्गादित्वाद्यञ् । रावणे यथा - पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् । श्रीदे धनदे यथा - पौलस्त्येन शुधांशुमौलिसुहृदा ग्रस्तं समस्तं धनम् ॥ भ्रातृव्यो भ्रातृजे रिपौ ॥ भ्रातुरपत्यं भ्रातृव्यः । भ्रातुर्व्य इति व्यः । रिपौ तु एकद्रव्याभि जाषित्वनिमित्तोपचारात् । द्वयोर्यथा - भ्रातृव्ये
1