________________
तृतीयः काण्डः
(२०९) नादेयी जलवानीरे भूजंबूनागरंगयोः । कांगुष्ठे च जपायां च निकायः सद्मसंघयोः ॥ ४८२ ॥ परमात्मनि लक्ष्ये च प्रेणयः प्रेमयाश्चयोः । विसंभे प्रसरे चापि प्रत्ययो ज्ञानरंध्रयोः॥ ४८३ । विश्वासे शपथे हेतावाचारप्रथितत्वयोः।।
अधीने निश्चये स्यादौ प्रणाय्यः कामवजिते ॥४८४॥ प्रतिपदा श्रेष्ठा द्वितीया सोमसूनुना । गेहिन्यां भार्यायां यथा-स सद्वितीयो वनमाजगाम ॥ द्वितीयः पूरणे द्वयोः ॥ वाच्यलिंगः यथा-तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ॥४८१ ।। नादेयी जलवानीरे भूजंबूनागरंगयोः ।। कांगुष्ठे च जपायां च ॥ नद्यां भवा नादेयो । नद्यादेरेयण् । पंचापि वनस्पतयः । नदी समुद्भवेऽपि । तत्र वाच्यलिंगः तत्र यथा-नादेयं नादेयी शरदि वसन्ते च नादेयम् ॥ निकायः समसंघयोः। परमात्मनि लक्ष्ये च ॥ निचोयति निकायः । समन्यर्थे चिति देहावासिनि धनु कादेशश्च । संघे तु संघेन्तर्द्ध इति । निवृतो नियतो वा कायोऽत्रेति वा । सद्मनि निवासे यथा-कायोऽप्यपायनिचयस्य निकाय एव । संघे यथा-नाकनायकनिकायकामिनीकोपकंपकुटिलैर्विलोचनैः ॥ ४८२ ।। परमात्मनि लक्ष्ये वेद्य च यथानिकाये योगिनां चित्तं धातुक्माणामिवोच्चकैः ॥ प्रणयः प्रेमयाश्चयोः । विसंभे प्रसरे चापि ॥ प्रणयनं प्रणयः । प्रेम्णि यथा-प्रणयकुपितां दृष्ट्वा देवी स संभ्रमविस्मृतः । याञ्चायां यथा-प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैरपि । विसंमे विश्वासे यथा-अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । प्रसरे यथा-प्रेमप्रणयसंजातहर्षगद्गदया गिरा । परिचयेऽपि यथाकृतोऽक्षसूत्रप्रणयी तया करः ।। प्रत्ययो ज्ञानरंध्रयोः। विश्वासे शपथे हेतावाचारप्रथितत्वयोः ॥ अधीने निश्चये स्यादौ । प्रतीयतेऽनेन प्रत्ययनं प्रत्येति वा प्रत्ययः । ज्ञाने यथा-विकल्पप्रत्ययोत्पन्ना न शब्दा सत्त्वदर्शने । रंध्रे छिद्रे यथा-रिपोः प्रत्ययमासाद्य प्रहरेत् कालधर्मवित् ॥ ४८३॥ १ मु. मू. निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि नेपथ्यं नु प्रसाधने । रङ्गभूमौ वेषभेदे प्रणयः ।