________________
अनेकार्थसंग्रहः सटीकः :: द्वितोयो विभागः
चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसांजने । कतकेऽक्षिहिते चापि चक्षुष्या तु कुलच्छिका ॥ ४७९ ॥ चांपेयो हेम्न किञ्जल्के चंपके नागकेसरे । जघन्यं शिश्नगर्ह्येऽन्त्ये जटायुर्गुग्गुलौ खगे ||४८० ॥ तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ । द्वितीया तिथिगेहिन्यद्वितीयः पूरणे द्वयोः ॥ ४८१ ॥ गांगेयो गांगवत् स्कन्दभीष्मयोः । गंगाया अपत्यं गांगः शिवाद्यण् । स्कंदे यथागांगेयमभ्युद्धरताऽनुगंगम् । भोष्मे यथा - गांगेयः स बभूव यस्य पुरतो यातास्तृणं शत्रवः । एवं गांगोऽपि ॥ ४७८ ॥ चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसांजने । aahsafed चापि । चक्षुषे हितश्चक्षुष्यः प्राण्यंगे तियः । सुभगाक्षिहितयो - र्वाच्यलिंगः । तयोर्यथा - नित्यं प्रसारितकरः सवितापि भवत्यचक्षुष्यः । रसांजनमंजनविशेषः । कतकस्थाने केतके इत्यन्ये । चक्षुष्या तु कुलच्छिका । कुलच्छिका तु नेत्रौषधम् ॥ ४७९ ।। चांपेयो हेम्नि किञ्जल्के चंपके नागकेसरे । चप्यते चांपेयः । गेयहृदयादय इति साधुः । हेम स्वर्णम् । किञ्जल्कम् केसरम् | चंपकनागकेसरौ वृक्षौ । जघन्यं शिनगऽन्त्ये । जघने भवम् जघन्यम् दिगादिदेहंशोद्यः । जघन्यस्य तुल्यं वा शास्त्रादेर्यः । शिश्ने यथा-श्वेवानुतप्यते साधुः कृत्वा कर्म जघन्यजम् । गर्थे वाच्यलिंगः तत्र यथा - धर्मार्थकामाः सममेव सेव्याः यस्त्वेकसक्तः स नरो जघन्यः । अन्त्ये पश्चादर्थे यथा - उत्तिष्ठेत्त गुरोः पूर्वं जघन्यं संविशेदपि । अन्त्ये वाच्यलिंगः इत्यन्ये ॥ जटायुर्गुग्गुलौ खगे ॥ जटामेति जटायुः । कृवापाजी स्युणू । पुंसि । गुग्गुलुर्महिशाक्षः । स्वगे यथा - चापे तात जटायुजीवितकथापर्यन्तधूमातिक्रोधोत्पीडनिपीतशोकजडिमा दृष्टिस्तु विश्राम्यति ।। ४८० || तपस्यः फाल्गुनमासे । तप एव तपस्यः मर्तादिभ्यो यः । यथा - भ्रश्यंति पत्राणि तसेस्तपस्ये ।। तपस्या नियमस्थितौ । तपसः करणं तपस्या । तपसः क्यनिति क्यानि शंसि प्रत्ययादित्यः । यथा - वने तपस्यां तनुते तपस्वी । द्वितीया तिथिगेहिन्योः ॥ द्वयोः पूरणी द्वितीया । द्वेस्तीयः । तिथौ यथा - शुक्रेण
I
(२०८)