________________
तृतीयः काण्डः
(२०७)
कुलायः पक्षिणां स्थानगेहयोः क्षेत्रियास्त्रयः । अन्यदेहचिकित्साहा॑ऽसाध्यरुक्-पारदारिकाः ॥ ४७७ ॥ क्षेत्रियं क्षेत्रजे तणे गांगेयं स्वर्णमुस्तयोः।।
कसेरुण्यथ गांगेयो गागवत् स्कंदभीष्मयोः ॥४७८ ॥ यथा—कर्णार्पितो रोधकषायरूक्षे गोरोचनाभेदनितान्तगौरे । वर्णो रक्तपीतवर्णयोगः तत्र यथा-जातं कषायितं व्योम नानाकुसुमरेणुभिः । स्निग्धवासितयोरपि मंखः । स्निग्धे यथा-चूतांकुरास्वादकषायकंठः पुंस्कोकिलो यन्मधुरं चुकूज । वासिते भाविते यथा-निद्राकषायमुकुलीकृतताम्रनेत्रः । कालेयेस्तु दैत्ये । कलिदेवता अस्य कालेयः । कल्यग्ने रेयण् यथा-कालयोपद्रुताः काले । कालेयं कुङ्कुमं यकृत् । कु ईषल्लीयते कालेयम् यएच्चते इति ये अल्पे इति कादेशः । कुंकुमे यथा-कालेयकशोदविलेपनश्रियम् दिशन् दिशामुल्लसदंशुभघुतिः । यकृत् कालखण्डम् । कुलायः पक्षिणां स्थानगेहयोः। कोलति कुलायः कुलोलुलीति कायः द्वयोर्यथा-दधतमंतरितां हिमदीधिति स्वगकुलाय कुलायनिलायिताम् ।। क्षेत्रियास्त्रयः । अन्यदेहचिकित्साहोऽसाध्यरुक्-पारदारिकाः॥ क्षेत्रेऽन्यस्मिन् नाश्यः क्षेत्रियः । क्षेत्रेऽन्यस्मिन् नाश्ये इयः वायलिंगः । चिकित्स्यशरीरात् परशरीरे संक्रमय्य यश्चिकित्स्यते विषभूतग्रहादिः। सोऽन्यदेहचिकित्साहः तत्र यथा-क्षेत्रियं विषमवातिदुसहं जन्मांतरशरीरे नाश्यो न इहत्ये यो व्याधेः सोऽसाध्यरुक् । तत्र यथा-आवेदयति नितांतं क्षेत्रियरोगं सखि हृदंतः । पारदारिकः स्वक्षेत्रात् स्वकलत्रात् अन्यस्मिन् क्षेत्रे प्रर्वतमानो नाश्यो निग्राह्यो भवति । तत्र यथा-स्वक्षेत्रात् क्षेत्रिया रक्ष्याः ॥४७७॥ क्षेत्रिय क्षेत्रजे तृणे ॥ तृणमपि स्वक्षेत्रात् अन्यस्मिन् धान्यक्षेत्रे नाश्यं भवति । तत्र यथा-क्षेत्रियेष्विव दवानलस्य ते दाहशक्तिरतुला विरोधिषु । गांगेयं स्वर्णमुस्तयोः। कसेरुणि । गंगाया असत्यमित्र गांगेयम् । शुभ्राये यण । स्वर्णे यथा-गांगेयाभरणप्रभाव्यतिकरप्रामप्रकृष्टश्रियम् । मुस्ताकशेरु च कंदविशेषे ।
१ मु० मू०-कुकृत्यमनुतापे स्यादयुक्तकरणेऽपि च । कुलायः ।