________________
(२०६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः ऊर्णनाभे च मेषे चौर्णेयमेणीत्वगादिके । रतबंधभिदि स्त्रीणां कषायः सुरभौ रसे ।।४७५।। रागवस्तुनि निर्यासे क्रोधादिषु विलेपने ।
वर्णे कालेयस्तु दत्ये कालेयं कुंकुमं यकृत् ।। ४७६ ॥ तु चक्षुरादिषु रेतसि । इन्द्रस्यात्मनो लिङ्गं इंद्रियं इंद्रियमिति साधुः । चक्षु. रादिग्वित्यादिशब्दात् श्रोत्रं त्वक्नासिका जिह्वा चेति । तत्र यथा-एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहोतमन्मथः । रेतसि यथा-बाल्यं वृद्धिर्बलं प्रज्ञा चक्षुः श्रोत्रं त्वगिन्द्रियम् । (दशभिर्दशभिर्वर्षे रेतद्वाल्यादिक्रमेण होयते ॥) ॥ उदयः पर्वतोन्नत्योः ॥ उदेति अस्मिन् उदनयनं वा उदयः पर्वते यथाउदयशिखरशङ्गप्राङ्गणेष्वेष रिखन् । उन्नतौ यथा-उदयप्रतापनाशा ममापि किमुतापरस्य लोकस्य ॥ ऊर्णायुरविकंबले उर्णनाभे च मेषे च ।। ऊर्णास्त्यस्य ऊर्णायुः। ऊर्णाहं शुभमो युस् । पुंसि । अविकंबले यथामालिन्यमूर्णायुरिवातनोति खलो जनानामुपलालितोऽपि ॥४७॥ ऊर्णनाभे मर्कटके यथा-जर्णोर्णायुपुटोपमा प्रकटयत्यस्तक्षणे चंद्रमाः । मेषे यथा-ऊर्णायोहगस्य किं न कुरुते गोमायुरारादपि ॥ ऐणेयमेणीत्वगादिके । रतबंधभिदि स्त्रीणाम् ॥ एण्या विकारोऽवयवो वा ऐणेयं एण्या एयञ् । रतबंधे तूपचारात् । एणी त्वगादिके वाच्यलिंगः तत्र यथा-ऐणेय्यां वचि संविशन्ति वसते चापि त्वचं तारवीम् । स्त्रीणां रतबंधभेदः कामशास्त्रप्रसिद्धः । कषायः सुरभौ रसे । रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे । कषति कषायः । कुलिलुलिकलिकषिभ्यः कायः । सुरभी वर्णे च गुणे पुंसि तद्वति वाच्यलिंगः। अन्यत्र पुंकलीबः सुरभौ यथा-प्रत्यक्षेषु स्फुटितकमला मोदमैत्रीकषायः। रसस्तुवराख्यः तत्र यथा-कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते ॥४७॥ रा गवस्तुनि यथा-अधरो वीतरागस्ते कषाये ते विलोचने । निर्यासे काथरसे यथा-पोतः शोतकषायोऽयं शर्करारससंयुतः। क्रोधादिषु यथा - स्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । विलेपने अवस्नेहने