________________
तृतीयः काण्ड:
अहार्थी हर्तुमशक्ये शैलेऽथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः || ४७२ || आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि । आतिथ्योऽतिथौ तद्योग्येप्याम्नायः कुल आगमे ॥ ४७३ || उपदेशे चेंद्रियं तु चक्षुरादिषु रेतसि । उदयः पर्वतोन्नत्योरुर्णायुरविकंबले ||४७४ ||
(२०५)
पथमगान्नैव भवतः ॥४७१ || अहार्यो हर्तुमशक्ये शैले ॥ न हर्तुं शक्यो अहार्यः हर्तुमशक्ये वाच्यलिङ्गः द्वयोर्यथा- विमुच्य सा हारमहार्यंनिश्चया विलोलयष्टिः प्रविलुप्तचंदनम् ॥ अथाशय आश्रये अभिप्रायपनसयोः ॥ आशेरतेऽस्मिन्निति आशयः पुंनाम्नि इति घः आशीतिर्वा भावे अल । आशये अभिप्राये च यथा-लोलत्वादपहरतां तदङ्गरागम् संजज्ञे सकलुष आशयो जलानाम् । पनसो वृक्षभेदः || आदित्यस्त्रिदशार्कयोः ।। व्यदितेरपत्यमादित्यः । अनिदम्पति ज्यः । त्रिदशे यथा - आदित्या व्यत्ययं हित्वा त्वां स्रुवंति पुरातनम् । अर्के यथा - अमी च कथमादित्याः प्रतापक्षितिशीतलाः ||४७२ || आत्रेयो मुनिः ॥ अत्रेरपत्यं आत्रेयः इतोऽनित्र इति अयणू यथाजीर्णभोजनमात्रेयः ॥ आत्रेयी पुष्पवत्यां सरिद्भिदि ॥ अति आत्रेयी गयहृदयेति साधुः । गौरादित्वात् डीः । पुष्पवती रजस्वला तत्र यथा- आत्रेयी गमनाद्धरेरपि विभोर्लक्ष्मीः परावर्तते । सरिद्भिदि यथा - रेवे कावेरि सिप्रे बत बत यमुने कष्टमात्र कष्टम् । आतिथ्योऽतिथौ तद्योग्येऽपि ॥ अतिथिरेव आतिथ्यः भेषजादित्वात् स्वार्थे द्यण् । अतिथयेऽयं वा णौ तिथिरिति ण्यः तद्योग्ये अतिथ्यर्थं तत्र वाच्यलिङ्गः द्वयोर्यथा - आतिथ्यानां प्रथितमहसां कार्यमातिथ्यमार्यैः || आम्नायः कुल आगमे उपदेशे च ॥ आम्नायते आम्नायः कुठे अन्वये यथा - आम्नायायातमेतद्भवति न विफलं जातुचिद्रत्नजातम् । आगमे वेदे यथा - अधोती चर काम्नाये सोऽध्वर्युः श्रेष्ठ उच्यते ||४७३॥ उपदेशे यथा - निराम्नायो मंत्रः स्फुरति न हि कस्यापि नियतम् ॥ इंद्रिय