________________
(२०४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसंधेऽश्वहितेऽधृष्यः प्रगल्भके ॥४७०॥ अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति ।
सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः ॥४७१।। देर्यः । न वध्यम् अवध्यं वाच्यलिङ्गः । अवधाहे यथा-तिपतिद्धाद् ह्यवध्यो यतः ॥ अभयमुशीराभोत्योः । नास्ति भयमस्मादस्य वा न भयं वा अभयम् । उशीरं वीरणीमूलम् । अभोतिरिति बहुव्रीहिस्तत्पुरुषो वा । बहुव्रीहिपक्षे अभयशब्दो वाच्यलिंगः । तत्र यथा- अभयाः सन्तु पन्थानः । तत्पुरुषपक्षे क्लिबेः तत्र यथा-यो भूतेष्वभयं दद्यात् भतेभ्यस्तस्य नो भयम् ॥ अभया तु हरीतकी ॥ ॥ हरीतकी पथ्या ॥४६९।। अनयोऽशुभदैवे स्यात् विपद्व्यसनयोरपि । अयः शुभं दैवं तद्विरोधी अनयः विरुद्धो नयः इति वा । अशुभदैवे यथा-सर्वमेतदनयस्य जृम्भितम् । विपदि यथा-किं न पापमनयेन कुर्वते । व्यसने स्त्रीमद्यादौ यथा-अनयेनैव राजश्रीः क्षीयते माभृतां क्षणात् । अश्वीयमश्वसंधेऽश्वहिते । अश्वानां समूहोऽश्वोयम् । वावादीय इति ईयः । अश्वेभ्यो हितं वा तस्मै हिते इति इयः । अश्वहिते वाच्यलिंगः । अश्वसंघे यथा- अश्वीयं च खुरोद्धत्तावनितलम् । अश्वहिते यथा-अश्वीयेषु याकुरेषु कुरुते वाहावलीविक्रमम् । अधृष्यः प्रगल्भके । न धृष्यतेऽधृष्यः । कृदुपांत्येति क्यप् । प्रगल्भकः प्रौढोऽनाकलनीय इति यावत् । तत्र वाच्यलिंगः तत्रयथा-अधृष्यश्वाभिगम्यश्च यादो रत्नरिवार्णवः ॥४७०॥ अधृष्या निम्नगाभेदे ॥ निम्नगाभेदो नदीविशेषः । अहल्या गौतमयोषिति सरोभेदेऽपि । न हल्यते अहल्या । नत्रो हलिपतेरिति यः । गौतमयोषिति यथा-त्रिदशपतिरहल्यां तापसीं यः सिषेवे । सरोमेदस्तडागविशेषः । अभिरख्या तु शोभायां कीर्तिसंज्ञयोः। अभिल्यायतेऽनया अभिल्यानं वा अभिख्या । शोभायां यथा-काप्यभिच्या तयोरासीद् बजतोः शुद्धवेषयोः । की ती यथा-अभिल्या सांमुख्यं नयति रिपुमप्याशु नृपतेः । संज्ञायां यथा-असौ रामाभिख्यः स्मृति