SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः साधिष्ठे संभ्रम भीतौ संवेगादरयोरपि । सुषीमः शिशिरे रम्ये सुषमं रुचिरे समे ||४६७ || - सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दंडकृच्छ्रयोः ॥ ४६८ ॥ अवध्यमवधा स्थादनर्थ कवचस्यपि । अभयमुशीरामीत्योरभया तु हरीतकी ||४६९ ॥ (२०३) 1 नेन वा विभ्रमः । शोभायां यथा - इंदोर्विभ्रममाननं वितनुते । संशये यथापुंसोऽपि मृगतृष्णायां यस्यास्ति जलविभ्रमः । हावे विलासे यथा - रुरुचिरे रुचिरे क्षणविभ्रमाः ।। सत्तमः श्रेष्ठपूज्ययोः साधिष्ठे । अतिशयेन सत् सत्तमः वाच्यलिंगः | श्रे: प्रशस्यतमः साधिष्ठः साधुतमः । त्रिष्वपि यथा - शृणु त्वं मुनिसत्तम ॥ ४६६ || संभ्रमो भीतौ संवेगादरयोरपि । संभ्रमणं संभ्रमः । भोतो यथा - कुसुमसौरभ लोलपरिभ्रममर संभ्रमसंमृतशोभया । संवेगो भयादिभिश्चित्तव्याक्षेपात् त्वरणम् तत्र यथा - गृह्णन् केशेष्वपास्तचरणनिपतितो नेक्षितः संभ्रमेण । आदरे यथा - संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ सुषोमः शिशिरे रम्ये । शोभना सीमाऽस्य सुषीमः । पृषोदरादिखात् षत्वम् । वाच्यलिंगः ॥ सुपीमं रुचिरे समे । शोभनं समं सुषमं सुष्ठु समति वा । निर्दुः सुवे: समसृतेरिति षत्वम् वाच्यलिंगः । द्वयोर्यथा 1 : सुषमे भूप्रदेशे तु बद्ध्वा निश्चलमासनम् ||४६७॥ सुषमा तु स्यात्परमशोभायां कालभिद्यपि । कालभिदि यथा - सुषमातो दुःषमायां कृपा फलवती तव || अथ यांताः ॥ अत्ययोऽतिक्रमे दोषे विनाशे दंड कुच्छ्रयोः ॥ अत्ययनं अत्ययः पंचस्वर्थेषु । अतिक्रमस्तूल्लंबनम् तत्र यथा - पर्वात्यये सोम इवाष्णरश्मेः । दोषे यथा - निरत्ययं साम न दानवर्जितं न भूरिदानं विरहय्य सकियाम् । विनाशे यथा-प्राणात्यये सर्वधनापहारः । दंडे यथा - वाक्ारुष्य इत्ययः शतम् । कृच्छ्रे क्लेशे यथा - अध्ययो यस्य नैवास्ति शोते वाप्याऽपि वा ॥४६८|| अवध्यमवधार्हे स्यादनर्थ कवचस्यपि । वधमर्हति वध्यम् । दण्डा 1 *
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy