________________
-
(२०२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभोगः
राका रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोममरघट्टके ॥४६४॥ विलोमो वरुणे सर्पे प्रतापे कुक्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि ॥४६५॥ क्रांतौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः।
शोभायां संशये हावे सत्तमः श्रेष्ठपूज्ययोः ॥४६६।। मध्यमः ॥ मध्यमा कर्णिकांगुलिः राका रजस्वला चापि । कर्णिका बीजकोशः । अंगुलौ मध्यमांगुलौ यथा-अंगुष्ठमध्यमाभ्यां तु चक्षुषी समुपस्पृशेत् ॥४६३।। राका पूर्णिमा तत्र यथा-अमृतममृतरश्मिमध्यमा मध्यरात्रे । रजस्वलायां यथा-मध्यमा न विवाह्या स्यात् कुलदोषकरी हि सा । व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे ।। व्यायमनं व्यायच्छतेऽत्र व्यायामः। पौरुषे श्रमे च यथा-स्थाने शमवतां शक्त्या व्यायामे वृद्धिरंगिनाम् । वियामस्तिर्यक् बाहू प्रसारितो व्याम इति यावत् । यच्छेशः-अथ व्यायामे वियामः स्यात् बाहू चापस्तनूनल । तत्र यथा-व्यायाममात्री परिखां खनंति । दुर्गसंचार इति चाणाक्योक्तकृत्यांतराणामुपलक्षणम् । तत्र यथा- शमव्यायामाभ्यां प्रति. विहिततंत्रस्य नृपतेः । परं प्रयावापः फलति कृतसेकस्तरुरिव । विलोममरघट्टके ॥ विलूयते विलूनाति वा विलोमम् रुक्म ग्रीष्मेति साधुः । अरघट्टको घटीयंत्रम् ॥४६४॥ विलोमो वरुणे सर्पे प्रतीपे कुक्कुरेऽपि च ॥ विपरीत लोमकरोति णिचि अचि च विलोमः । प्रतीपे वाध्यलिंगः । वरुण यादपतिः । प्रतीपे यथा-गुणयेद्विलोमगत्या ॥ विलोमी स्यादामलक्याम् ।। गौरादित्वात् डीः आमलकी धात्री । विक्रमः शक्तिसंपदि क्रांतौ च । विक्रमणं विक्रमः शक्तिसंपदि यथा-अनुस्मृताखंडलसूनुविक्रमः ॥४६५॥ क्रांतिः पादविक्षेपः तत्र यथा-हंसेभ्यः क्रमविक्रमश्चलदृशो किं शिक्षितः सर्वतः ॥ विद्रमो वृक्षे प्रवालेऽपि । विशिष्टो द्रुमो विद्रुमः विद्रवति वा कुंदुमलिंदुमेति साधुः । वृक्षे यथा- वेलातटेषुद्गतविद्रुमेषु । प्रवाले यथा-लेखया विमलविद्रुमभासा । अथ विभ्रमः । शोभायां संशये हावे । विभ्रमणं विभ्राम्यत्य