________________
तृतीयः काण्डः
(२.१) पञ्चमो रुचिरे दक्षे पश्चानामपि पूरणे । रागभेदे पंचमी तु द्रौपद्यां परमः परे ॥४६१॥ अग्रेसरप्रथमयो कारे परमं पुनः।। स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके ॥४६२॥ गजस्य दन्तभेदे च मध्यमो मध्यजस्वरे ।
देहमध्ये मध्यदेशे मध्यमा कणिकांगुलिः ॥४६३॥ पञ्चमो रुचिरे दक्षे पञ्चानामपि पूरणे। रागभेदे । पञ्चयते पञ्चमः । रुक्म-ग्रीष्मेति (उ० ३४६) साधुः । पञ्चानां पूरण इति वा । “नोमट्" (७।१।१६९)। रागभेदे पुंसि, शेषेषु वाच्यलिंग । रुचिरे दक्षे चं यथापञ्चमोऽयं विपश्चिताम् । पञ्चानां पूरणे यथा--पञ्चमं पञ्चतपसस्तपनो जातवेदसाम् । रागभेदे यथा-प्रीति पञ्चमरागगोतिषु ॥ पश्चमी तु द्रौपद्याम् ॥ यथा प्रपश्चः पञ्चमीगिराम् ।। परमः परे अग्रेसरप्रथमयोरोंकारे ॥ पृणाति परमः । सृपप्रथीत्यमः । ॐकारे पुंसि शेषेषु वाच्यलिङ्गः । परे उत्कृष्टे यथापरमं यो महत्तेजः ।।४६१॥ अग्रेसरे प्रथमे च यथा-परमः स मनोषिणा । परमं पुनः स्यादव्ययमनुज्ञायाम् । यथा-ततः परम मत्युक्त्वा प्रतस्थ मुनिमण्डली | प्रतिमा प्रतिरूपके। प्रतिमीयते प्रतिमा प्रतिरू रके यथारत्नस्तंभेषु संक्रान्तप्रतिमाश्च चकासिरे ॥ ४६२ ॥ गजस्य दन्तभेदे । गजस्य दन्तभेदे(बन्धे) यथा-दन्तै सुवर्णनिहितप्रतिमैगजेन्द्र । मध्यमो मध्यजे स्वरे देहमध्ये मध्यदेशे। मध्ये जातो मध्यमः मध्यान्मः । मध्यजे वाच्यलिंगः । तत्र यथा-सर्वेषामेष तेषां समरमस्वभुवि क्रोधवह्नौ जुहोति । द्वित्रहुंकारमत्रैरभिजनसमिधो मध्यमः पांडवेयः ॥ स्वरे स्वरविशेषे यथा-क्रौञ्चः क्वणति मध्यमम् । देहमध्ये 'क्लोबः। तत्र यथा-शुचौ चतुणी ज्वलतां शुचिस्मिता हविर्भुजां मध्यगता सुमभ्यमा । मध्यदेशे यथा-हिमवद्विंध्ययोमध्यं यत् प्राक् विनशनादपि। प्रत्यगे च प्रयागाच्च मध्यदेश स