________________
(२००) अनेकार्थसंग्रहः सटीकः द्वितीयों विभागः
नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ॥४५९॥ नैगमो नयपौरोपनिषदृतिषु वाणिजे ।।
प्रथमः स्यात्प्रधानाधोः प्रक्रमोवसरे क्रमे ॥४६०॥ दाडिमो दालिमः सारः कुटिमः फलखाडवः । स्वाद्वम्लो रक्तबीजश्च करकः शुकवल्लभः ॥ तत्र त्रिलिंगे यथा--पाकारुणस्फटितदाडिमकांति वक्त्रम् । एला वृक्षभेदः ॥ निष्क्रमो निर्गमे बुद्धिसंपत्तौ दुष्कुलेऽपि च । निष्क्रमणं निष्क्रामत्यनेन निष्क्रामति वा निष्क्रामः । निर्गमे यथा--प्रवेशो निष्क्रमो वापि कार्यों राजकुले क्रमात् । बुद्धिसंपत्तौ यथा-निष्क्रमोऽक्रमवतां दुरात्मनाम् सजनापकतये सनातनः। दुष्कुले यथा--निमंत्री निष्क्रमः कार्यों राज्ञा विक्रममिच्छता॥४५८॥
नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । नियमनं नियमः । संनिव्युपाद्यम इत्यल् । प्रतिज्ञायां यथा-इति कृतनियमो जघान शत्रून् । निश्चये यथा-यमोऽयं नियमादेव हिनस्ति भुवनत्रयीम् । यंत्रणे बंधने यथा-विभ्रम रमणी धत्ते नीवीनियमनिर्भरा । व्रते यथा-अह्नाय सा नियमजं क्लमुत्ससर्ज ।। निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः । निगच्छत्यत्र अनेन वा निगमः। गोचर संचरेति घः । षटवर्थेषु पुरि वणिजे च यथा--न खलु निगममार्ग याति साध्वी कदाचित् । वेदे यथा--साम्राज्यं निगमस्य सर्वविषये शंभोरिवोज्जम्भते । निश्चये अध्वनि वणिपणे च यथा--सतां सज्जनसाहाय्यात् सुगमो निगमः खलु ॥ ४५९॥ . नैगमो नयपौरोपनिषतिषु वाणिजे । निगमे भवो नैगमः पञ्चस्वथेषु । नयो निरवधारणः पक्षपरिग्रहः । तत्र यथा-नैगमादयः सप्त नयाः । पौरे वाणिजे च यथा--पुराणि श्रेणयश्चैव शिल्पिनो नगमास्तथा । उपनिषत् वेदान्तः । दृतिश्चर्मप्रसेवकः ॥ प्रथमः स्यात्प्रधानाधोः । प्रथमते प्रथमः । सृपृप्रथिचरीत्यमः । वाच्यलिङ्गः । प्रधाने यथा--गरिष्ठागोष्ठी प्रथमैः प्रमाथैः परिवारितः । आदौ यथा--प्रथमबिदुभिरम्बुमुचोभसाम् ॥ प्रक्रमोऽवसरे क्रमे । प्रक्रम्यते प्रक्रमः । अवसरे यथा-दोलाके लिनिसण्ण पन्नगविधौ गीतोत्सवप्रक्रमे । क्रमे यथा--नागतश्च स हहा कोऽयं विधे । क्रमः ॥४६०॥