________________
तृतीयः काण्डः गोधूमो भेषजे नागरंगखोहिप्रभेदयोः । । गोलोमी वारयोषायां षड्गन्धासितर्वयोः ॥४५६॥ गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः ॥४५७॥ विताने कुट्टिमे चापि दाडिमः करकैलयोः ।
निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च ॥४५८॥ विज्ञेयस्तितिडीबीजरसः कुसुमनाशनः । फलपुष्पयोर्यथा--समभिसृत्य रसादवलंबितः प्रमदया कुसुमावविचोषया । कृत्रिमं लवणभेदे । करणेन निर्वृत्तं कृत्रिमं । द्वितस्त्रिमक् तत्कृतमिति त्रिमक । यथा--न रोचते भोज्यमकृत्रिमं नृणाम्। कृत्रिमः कृतसिल्हयोः। कृते वाच्यलिङ्गः । तत्र यथा-जिधृक्षया कृत्रिमपत्रपंक्तेः । सिल्हो गन्धद्रव्यम् ॥४५५॥ . गोधूमो भेषजे नागरंगत्री हिप्रभेदयोः । गुध्यते गोधूमः । क्रुधिर्णधेरूमः । नागरंगद्रोहिप्रभेदयोर्यथा--गोधूमसदृशाकृतिः ॥ गोलोमी वारयोषायां षड्गन्धासितर्वयोः। गां लुनाति गोभिर्खयते वा गोलोमी । रुक्म-ग्रीष्मेति साधुः । वारयोषा वारस्त्री । षड्गन्धा वचा । सितदूर्वा दूर्वाभेदः ॥४५६॥
गौतमो गणभृभेदे शाक्यसिंहर्षिभेदयोः। गोतमस्यापत्यं गौतमः । ऋषिवृष्ण्यंधकेत्यण् गौतम एव वा प्रज्ञादित्वादण् । गणभृभेदः श्रीमहावीरस्य प्रथमगणधर इन्द्रभूतिनामा तत्र यथा-तापसान् भोजयामास गौतमो गणभृद्वरः । शाक्यसिंहे बुद्धे यथा-गौतमेन यदुदस्यता शयं प्रोद्धृतं जगदुपप्लुताशयम् । ऋषिभेदे यथा--प्रत्यपद्यत चिरस्य यत्पुनश्चारु गौतमवधूः शिलामयी ॥ गौतम्युमायां रोचन्यां । प्रकृष्टा गोर्गोतमा तस्या इयं गौतमी। उमा गौरी । रोचनी
ओषधिः ॥ तलिमं तल्पखड्गयोः । विताने कुट्टिमे चापि । तलति तलिमं वयिमखचिमादयः (उ० ३५०) इति साधुः । वितानं चंद्रोदयः खड्गे यथा--तलिनतलिमदडैः शात्रवं खंडयन्ति ॥१५७॥
शेषेषु यथा--श्रीखंडवधोतसोधतलिमो रम्यः क्षणो वर्तते ।दाडिमः करकैलयो । यति पित्तमिति दाडिमः । करको (करन-करञ्ज)वृक्षभेदः । यदाह