________________
(१९८) अनेकार्थसंग्रहः सटीक द्वितीयो विभागः
सुगन्धौ गवि सल्लयामधमो न्यूनगर्थयोः । आगमस्त्वागतौ शास्त्रेऽप्याश्रमो बतिनां मठे ॥४५३॥ ब्रह्मचर्यादिचतुष्केप्युत्तमा दुग्धिकोषधे । उत्तमं तु प्रधाने स्यात्कलमः शालिचौरयोः ॥४५४॥ कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिम लवणभेदे कृत्रिमः कृतसिल्हयोः॥४५५॥
सुगन्धौ मवि सल्लक्यां । गवि यथा--उर्जस्वलेन सुरभीमनुनिःसपत्नं जग्मे जयोधुरविशालविषाणमुक्त्वा । सल्लक्यां यथा--सुरभिजंभमना वरकुञ्जरः । अथ मान्ताः । अधमो न्यूनगर्ययोः अद्यतेऽधमः अवघववेत्यमः । अधो भव इति वा । अमोतावोधस इत्यमः । वायलिंगः ॥ द्वयोर्यथा-वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यांतिकम् । आगमस्त्वागतौ शास्त्रेपि । मागमनं आगच्छत्यस्मादिति वा आगमः । युवर्णेत्यल् । शास्त्रं आप्तवचनम् । द्वयोर्यथा-कस्य नानंदनिष्येदं, विदधाति सदागमः ।। आश्रमो वतिनां मठे । एत्य श्राम्यति अस्मिन्निति आश्रमः । पुंक्लोवः । मठेति स्थानोपलक्षणम् । तत्र यथा--तौ दम्पती वमिष्ठस्य गुरोजग्मतुराश्रमम् ।।४५३॥
ब्रह्मचर्यादिचतुष्केऽपि । ब्रह्मचर्यादिचतुष्कं-ब्रह्मचारी गृहस्थों वानप्रस्थो यतिरिति चत्वारः । तत्र यथा--पंचविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । उत्तमा दुग्धिकौषधे । उत्कृष्टा उत्तमा । उदःप्रकृष्टे तमम् ॥ उत्तमं तु प्रधानेस्यात् । वाच्यलिंगः । यथा--परितप्यत एवं नोत्तमः । परितप्तोप्यपरः ससंवृत्तिः। कलमः शालिचौरयोः । कडत् मदे सृपप्रधोत्यमेलत्वे च कलमः । शाली यथा--आपादपद्मप्रणताः कलमा इव ते रघुम् । चौरे यथा-कलमैः कमलाइता ॥४५४॥
कुसुम स्वीरजोनेत्ररोगयोः फलपुष्पयोः । कुसच् श्लेषे दंत्यान्तः । कुस्यति कुसुमं । उद्वटिकुल्पलीति कुमः । पुष्पे पुंक्लीबः । शेषेषु क्लीबः । स्त्रीरजसि यथा-कुसुमवतीमिह वल्ली मधुपादन्यो भजेत को नाम । नेत्ररोगे यथा