________________
तृतीयः काण्डः विस्रम्भः केलिकलहे विश्वासे प्रणये वधे । वृषभः स्यादादिजिने वृषपुंगवयोरपि ॥४५१॥ सनाभि तिसदृशोः सुरभिहेंम्नि चंपके ।
जातीफळे मातृभेदे रम्ये चैत्रवसन्तयोः ॥४५॥ कादेरंशेऽवयवे यथा-वृत्तवर्तिष्यमाणानां अथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कंभो मध्यपात्रप्रयोजितः ॥४५०॥
विसम्भः केलिकलहे, विश्वासे प्रणये वधे । विनंभणं विनमः ।। केलिकलहे यथा--कोयं विप्रेमसंरंभो दंपत्योः प्रेममग्नयोः। प्रणयः प्रेम । 'विश्वासे प्रणये च यथा--तस्यां क्षणिकचित्तायां विनम्भः कोऽन्ययोषिति । वधे यथा--चंडो निशुंभविनमज़म्भिताद्भुतशक्तिका । वृषभः स्यादादिजिने वृषपुंगवयोरपि । वृषो धर्मस्तेन भाति वृषभः । वर्षति वा । ऋषि वृषोति किदभः । आदिजिने यथा--पातु वो वृषभः स्वामी । वृषे यथा-उच्छृङ्गितान्यवृषभाः सरितां नदन्तो । रोघांसि धीरमपचस्किरिरे महोक्षाः । पुंगवे प्रधाने यथा--मुखे सत्या वाणी पुरुषवृषभाणां व्रतमिदम् ॥४५१॥
सनाभि तिसदृशोः । समाना नाभिरस्य सनाभिः । समानस्य धर्मादिविति स भावः । सदृशे तु उपचारात् । ज्ञातौ पुंसि । सदृशि वाच्यलिंगः । ज्ञातिः स्वजनस्तत्र यथा-भ्रातरो ये च संसृष्टा भगिन्याश्च सनाभयः । भगिनीपतिभागिनेयादयः । सदृशि यथा वक्त्रमिन्दोः सनाभि । सुरभिहेम्नि चंपके । जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः । सुरभते सुरभिः । पदिपठीति बहुवचनादिः । आगमशा सनमनित्यमित्यनागमाभावः । दशस्वर्थेषु रम्ये सुगन्धौ च वायलिंगः । मातृभेदे गवि सल्लक्यां च स्त्रियां । अन्यत्र पुंसि । हेम्नि चंपके च यथा--तस्याः शरीरं सुरभेः सनाभि । जातीफलं जातिकोशः । मातृभेदे यथा--आरम्भसिद्धिं सुरभिस्तनोतु । रम्ये श्रेष्ठे यथातां सौरभेयी सुरभिर्यशोभिः । चैत्रे वसंते सुगन्धौ च यथा-मृदुलतांतलतांतमलोकयत् समुरभिं सुरभि सुमनोभरैः ॥४५२॥