________________
अनेकार्थसंग्रहः सटीकः द्वितोयो विभागः ।
दन्त्यां च वल्लभोऽध्यक्ष कुलीनाश्वे पियेऽपि च । वर्षाभूः पुनर्नवायां स्याद् गण्डूपदभेकयोः ॥४४९॥ विष्कम्भो विस्तृतौ योगविशेषप्रतिबंधयोः ।
योगिनां च बन्धभेदे रूपकाऽवयवेऽपि च ॥४५०॥ दुंदुभिः । दमेडुभिर्डम् च । अक्षबिन्दुत्रिकद्वन्द्वेऽस्त्रियां । अन्यत्र पुंसि । मेर्या यथा-केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् । दितिसुते यथादुंदुभि नाम दैत्येन्द्र निष्पिपेष कपोश्वरः । विषं विषभेदः । अक्षबिंदुत्रिकद्वन्द्वे यथा-दुन्दुभ्या किल तत्कृतं पतितया यद्रौपदी हारिता । निकुम्भः कुम्भकर्णजे दन्त्यां च । नितरां स्कुम्नाति निकुम्भः । पृषोदरादित्वान त्सलोपः । कुंभकर्णजे कुम्भकर्णसुते यथा-निशुंभिता निकुम्भेन कपयः कंपनिर्भराः ॥४४८॥
दन्ती ओषधिः । वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च । वल्लते बल्लभः । क श ग (उ० ३२९) इति अभः । प्रिये वाच्यलिंगः अध्यक्षेत्र गवामधिकृतः । तत्र यथा-गोष्ठेषु बल्लमकृतातिथिसत्क्रियेषु । कुलीनाश्वे यथास्तोकेन नाक्रमत वल्लभपालमुच्चकैः । श्रीवृक्षकीपुरुषकोन्नमितानकायः । प्रिये यथा-उपनीविकमरुद्ध किल स्त्रीवल्लभस्य करमात्मकराभ्यां । वर्षाभूः पुनर्नवायां स्यात् गण्ड्पदभेकयोः ॥ वर्षासु भवति वर्षाभूः । पुनर्नवायां स्त्रियां । शेषयोः पुंसि । वैजयन्तीकारस्तु "मेक्यां पुनर्नवायां स्त्रो वर्षाभू दर्दुरे नषण् (नखे) इत्याह । गंडूपदः कृमिभेदः । मेके यथा-वर्षाभूनिवहा इव काले कोलाहलं कृत्वा ॥४४९॥
विष्कम्भो विस्तृतौ योगविशेषमतिबन्धयोः । योगिनां च बंधभेदे रूपकावयवेऽपि च । विष्कभणं विष्कम्नाति वा विष्कंभः । वेः स्कन्न इति पत्वं । विस्तृतौ यथा-विष्कंभषष्टभोगश्व विष्कंभस्त्रिगुणश्च यः । योगविशेषे यथा-विष्कभः प्रीतिरायुष्मान् । प्रतिबंधे यथा--न कार्यः कार्यविष्कंभः । योगिनां बंधमेदे यथा--योगी पवनविष्कंभाभ्यासनिर्भरमानसः । रुपकस्य नाट
EE