________________
तृतीयः काण्डः ककुभो वीणाप्रसेवे रागभेदेर्जुनद्रुमे ।। कुसुम्भं तु शातकुम्भे स्याल्लब्धायां कमण्डलौ ॥४४६॥ गर्दभो रासभे गन्धे गर्दभी जन्तुरुभिदोः । गर्दभं कुमुदभेदे दुर्लभः कच्छुरे प्रिये ॥४४७॥ दुष्प्रापेऽपि दुन्दुभिस्तु भेर्या दितिसुते विषे ।
अक्षबिन्दुत्रिकद्वन्द्वे निकुम्भः कुम्भकर्ण जे ॥४४८॥ लेश्च कनिष्ठायां मणिबन्धस्य चान्तरे । किरति कीर्यते वा करभः । कला, इत्यभः (उ० ३२९) । करे भाति वा । मय उष्ट्रः। हूस्व उष्ट्र उष्ट्रको यदाह-करभस्तु त्रिहायणः द्वयोर्यथा-संवित्पुरं वरविकासि चमूसमुत्थं । पृथ्वीरज करभकंठकडारमाशाः। कनिष्ठः मणिबंधांतरे यथा-क्व प्रस्थितासि करभोरूघने निशोथे ॥४४५॥
ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे । कक्यते ककुभः । ककेरुभः । वीणाप्रसेवे पुंरुलाबः । वोगाप्रसेवे बोगावस्तात् तंत्रानिबन्धनस्थाने (चर्मपुटः) । रागभेदे च यथा-नारदेन मनो जहे ककुभध्वनिभिर्विभोः । अर्जुनवृक्षे यथाकालक्षेपं ककुभसुरभी पर्व ते पर्वते ते । कुसुम्भं तु शातकुम्भे स्याल्लब्धा(दा)यां कमण्डलौ । कुसन् श्लेषे । दंत्यान्तः । कुस्यति कुसुंभः । काकुसिभ्यां कुंभः । पुंक्लीवः । शातकुंभे सुवर्णे यथा-कुसुंभकुंभंपरस्तः स शंभो । लब्धायां यथा-विकसत्कुसुम्भकुसुमारुणताम् । कमण्डलौ यथा-वित्रम्भेण कुसुम्भसंभृतजलैर्यात्रासु जग्मुर्जनाः ॥४४६॥ ___ गर्दभो रासभे गधे । गति गर्दै भः । क स ग इत्यभः (उ० ३२९) । रासमे यथा--गर्द्धभयानमसज्जनसेवा । गंधो गंधविशेषः । गर्दभी जंतुरुक्भिदोः। गौरादित्वाड्डीः जंतुभेदे रोगमेदे च । गर्दभं कुमुदभेदे । यथाइति गर्दभकोदभेदे कमलैर्मुकुलायितं । दुर्लभः कच्छुरे प्रिये । दुष्प्रापेऽपि ।
दुःखेन लभ्यते दुर्लभः । वायलिंगः । कच्छुरः पाम नः । त्रिष्वपि यथा-स । दुर्लभः सर्ववधूमिरिष्यते ॥४१७॥
दुन्दुभिस्तु भेर्या दितिसुते विषे । अक्षविन्दुत्रिकद्वन्द्वे । दाम्यति